Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पर्युषणातिथिविनिश्चयः ॥
१४५ सूर्योदयस्पशित्वादिति सत्त्वे सति सूर्योदयाऽस्पशित्वरूपाऽनौदयिकत्वमेव तत्र त्रयोदश्यादितिथेः प्राप्तम् । स एव च टिप्पनके चतुर्दश्यादिपर्वतिथेः क्षये आराधनायां त्रयोदश्यादितिथिक्षयः । तथा च टिप्पनके द्वितीयायाः क्षये आराधनायां 'क्षये पूर्वेति वचनप्रामाण्यात प्रतिपद एव क्षयो गणनीय इति सिद्धम् । एवमेव च पञ्चम्यादिपर्वतिथिष्वपि बोध्यम्।
एवं टिप्पनके पूर्णिमायाः क्षये पूर्णिमाया अपि पर्वतिथित्वेनाऽऽराधनायां 'क्षये पूर्वे' तिवचनेन तत्पूर्वीदयिकी चतुर्दश्येव तत्र दिने टिप्पनकोक्तचतुर्दशीदिनात्मके पूर्णिमात्वेन प्रमाणीकार्येति प्राप्तम् । तथा च प्रागुपदर्शितरीत्या पूर्णिमाया एवौदयिकत्वं तत्र दिने प्राप्तम् । चतुर्दश्यास्तु पूर्वदिनेऽनौदयिकत्वेन प्रागुक्तयुक्त्या क्षयः प्रासः । तथा च तस्या अपि पर्वतिथित्वेनाऽऽराधनायां तत्र दिने टिप्पनकोक्तत्रयोदशीदिनात्मके तत्पूर्वोदयिकी त्रयोदश्येव 'क्षये पूर्वे'ति वचनेन चतुर्दशीत्वेन प्रमाणीकार्येति प्राप्तम् । तथा च प्रागुक्तरीत्या तत्र दिने चतुर्दश्या एवौदयिकत्वं प्राप्तम् । त्रयोदश्या अपि प्रागुक्तयुक्त्या पूर्वदिनेऽनौदयिकत्वेन क्षयः प्राप्तः । तथा च टिप्पनके पूर्णिमायाः क्षयेऽप्याराधनायां 'क्षये पूर्वा तिथिः कार्येति वचनानुसारेण प्रागुपदर्शितरीत्या त्रयोदश्या एव क्षयो गणनीय इति सिद्धम् ।
___एवं च तत्तत्तिथ्याराधनायास्तत्तत्तिथिकर्तव्यताकत्वनियमोऽप्याराधितः स्यात् । एवं च टिप्पनके अमावास्यायाः क्षयेऽप्याराधनायां त्रयोदश्या एव क्षयो गणनीयः, तस्या अपि पर्वतिथित्वादित्यपि स्वयमेव परिभावनीयम् । 'एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापि तथेति न्यायात् । एतेन 'बीआ पंचमी अट्ठमी य इक्कारसी चउद्दसी खओ होइ ।
पुव्वस्स खओ अत्थि पुण्मिमासाए पडुअस्स ॥ १ ॥ आसाढ-कत्तिय-फग्गुण-मासाणं पुण्णिमाखओ होइ ।
तासं खओ (?ए?) तेरसी-खओ भणिओ जिणवरिंदेहिं ॥ २ ॥
आषाढ-कार्तिक-फाल्गुनमास सम्बन्धिपूर्णिमाक्षये त्रयोदश्याः क्षयः कार्यः, शेषपूर्णिमामावास्यानां च क्षये प्रतिपद एव क्षयः कार्य इत्यपि निरस्तम्, अर्धजरतीयत्वाऽऽपत्तेः । तत्रापि प्रमाणाभावात् ।
तथा सति पूर्णिमामावास्याक्षये तदुत्तरस्यां तिथौ प्रतिपद्येव पूर्णिमात्वस्याऽऽमावास्यात्वस्य च तव स्वीकार्यत्वेन 'क्षये पूर्वा तिथिः कार्ये'ति वचनाद् ज्ञापितस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176