Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पर्युषणातिथिविनिश्चयः ॥
अहोरात्रे तृतीयेऽथ भागास्तुर्यतिथेस्त्रयः । प्रविशन्त्यथ पञ्चम्या - श्चत्वारोंऽशास्तुरीयके ॥
एवमेकैकभागेन हीयते प्राक्तना तिथिः । वर्धते प्रत्यहोरात्रं तिथिरागामिनी पुनः ॥
एकत्रिंशत्तमतिथे रेवं त्रिंशत्तमे दिने । त्रिंशदंशाः प्रविष्टाः स्यु- स्ततस्तस्मिन् दिने खलु ॥ द्वात्रिंशदंशप्रमिता तिथिरित्रंशत्तमी भवेत् । त्रिंशद् द्वाषष्ठ्यंशमाना चैकत्रिंशत्तमी तिथिः ॥
क्रमाच्च
द्वावंशौ स्तः षष्टितम - तिथेः षष्टितमे दिने । एकषष्टितमतिथे - स्तत्र षष्टिः स्युरंशकाः ॥ एकषष्टितमतिथे-चैकषष्टितमे दिने । एकोऽशः स्यात्ततो द्वा षष्टितमी चाखिला तिथिः ॥
एवं च द्वाषष्टितमी प्रविष्टा निखिला तिथिः । एकषष्टिभागरूपाऽत्रैकषष्टितमे दिने ॥
एकषष्टतमदिन - स्याद्यो द्वाषष्टिजो लवः । एकषष्टितमतिथे चरमोऽसौ विभाव्यताम् ॥
ततश्च द्वाषष्टितमोऽप्यत्रैवान्तं गतस्तिथिः । एवमस्मिन्नहोरात्रे द्वे तिथी पूर्णतां गते ॥ द्वाषष्टितमघस्त्रस्य ततः सूर्योदयक्षणे । उपस्थिता पूर्वरीत्या द्राक् त्रिषष्टितमी तिथिः ॥
एवं च द्वाषष्टितमी नासा सूर्योदयं तिथिः । पतितेति ततो लोके शुभकार्येष्वनादृता ॥
तथाऽऽहुः - एक्कंमि अहोरते दोऽवि तिही जत्थ निहणमेज्जासु । सोऽत्य तिही परिहायइ सुहुमेण हविज्ज सो चरिमो ॥
Jain Education International
सुहमेण त्ति-सूक्ष्मेण अतिश्लक्ष्णेन द्वाषष्टितमरूपतया एकैकेन भागेन हीने परिहीयमानाया द्वाषष्टितमायास्तिथेः स एकषष्टितमो दिवसश्चरम इति ।
तथा हि- युगस्याद्यप्रतिपद-श्चतुष्पर्वव्यतिक्रमे । लभतेऽवमत्रत्व - मेकषष्टितमा तिथिः ॥
१३९
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176