Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 147
________________ १३८ ग्रन्थत्रयी एते चांशा द्वाषष्ट्यंशीकृतसकलतिथिमुहूर्तानाम् । सन्तीति द्वाषष्ट्या मुहूर्त्तकरणाय भजनीयाः ॥ (आर्या) ततो मुहूर्ता एकोन-त्रिंशद् द्वात्रिंशदंशकाः । द्वाषष्टिजा मुहूर्तस्या-गतास्तैश्च तिथेर्मितिः ॥ . कालेन चेयता पञ्च-दशांशश्चतुरंशकः । द्वाषष्टयंशी कृतस्येन्दो -हीयते वर्धते तथा ॥ ततश्च- यत्तिथिश्चन्द्रजेत्युक्तं तदप्येवं विनिश्चितम् । इन्दोः पञ्चदशांशस्य हानिवृद्ध्यनुवर्तनात् ॥ युगेऽथावमरात्राणां स्वरूपं किञ्चिदुच्यते । - भवन्ति ते च षड् वर्षे तथा त्रिंशद्युगेऽखिले ॥ . एकैकस्मिन्नहोरात्रे एको द्वाषष्टिकल्पितः । लभ्यऽवमरात्रांश-एकवृद्ध्या यथोत्तरम् ॥ कर्ममासे ततः पूर्णे त्रिंशद् द्वाषष्टिजा लवाः । लभ्यन्तेऽवमरात्रस्य तत एवोच्यते बुधैः ॥ विश्लेषे विहिते येऽशा: शेषाः कर्मेन्दुमासयोः । त्रिंशद् द्वाषष्टिजाः कर्म-मासस्यैतेऽवमांशकः ॥ उक्तं च - चंदउडूमासाणं अंसा जे दिस्सए विसेसंमि । . ते ओमस्तभागा भवंति मासस्स नायव्वा ॥ कर्ममासद्वये पूर्णे ततः षष्टिदिनात्मके । सम्पूर्णोऽवमरात्रः स्या-देकषष्टितमे दिने ॥ अयं भाव:- द्वाषष्टिरंशाः कल्प्यन्ते-ऽहोरात्रस्यादिमेऽथ च । तत्रैकषष्टिभागात्मा सम्पूर्णा प्रथमा तिथिः । एको द्वाषष्टिभागो यो-ऽहोरात्रस्यावशिष्यते । एकांशेन द्वितीयापि तिथिस्तत्र समाविशत् ॥ एको द्वाषष्टिभागोऽस्या अतीतः प्रथमे दिने । ततः षष्ट्यंशात्मिकेय-महोरात्रे द्वितीयके ॥ द्वाषष्ठ्यंशद्वये तस्य शेषेऽसौ पूर्णतां गता । द्वाभ्यां भागाभ्यां प्रविष्टा तृतीयाऽस्मिस्ततस्तिथिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176