Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१३६
'तत्र प्रकल्प्य द्वाषष्टिं भागान् शशाङ्कमण्डले । ह्रियते पञ्चदशभिर्लभ्यतेंऽशचतुष्टयम् ॥
किन्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमपपत्तं हिट्ठा चंदस्स तं चरइ ॥ तेणं वड्डइ चंदो परिहाणी वावि होइ चंदस्स ।"
द्वौ भागौ तिष्ठतः शेषौ सदैवानावृतौ च तौ । एषा कला षोडशीति प्रसिद्धिमगमद् भुवि ॥
कल्प्यन्तेऽशाः पञ्चदश विमाने राहवेऽथ सः । जयत्येकैकांशवृद्ध्या नीतिज्ञोऽरिमिवोडुपम् ॥ तच्चैवम् - स्वीयपञ्चदशांशेन कृष्णप्रतिपदि ध्रुवम् । पुक्त्वांशौ द्वावनावाय शेषषष्टेः सितत्विषः ॥
एतावदाव्रियते तत् प्रत्यहं भरणीभुवा । अहोभिः पञ्चदशभिरेवमाव्रियतेऽखिलम् ॥
चतुर्भागात्मकं पञ्चदशं भागं विधुंतुदः । आवृणोति द्वितीयायां निजभागद्वयेन च ॥ द्यष्टभागात्मकौ पञ्च- दशांशौ द्वौ रुणद्धि सः । षष्टिं भागानित्यमायां स्वैः पञ्चदशभिर्लवैः ॥ त्रिभिर्विशेषकम् । ततः शुक्लप्रतिपदि चतुर्भागात्मकं लवम् । एकं पञ्चदशं व्यक्ती - करोत्यपसरन् शनैः ॥ द्वितीयायां द्वौ विभांगौ पूर्णिमायामिति क्रमात् । द्वाषष्ट्यंशात्मकः सर्वः स्फुटीभवति चन्द्रमाः ॥
-
तथाहु: -
Jain Education International
इन्दोः विधीयमनाः स्युः कृष्णाः प्रतिपदादिका: । तिथयो मुच्यमानाः स्युः शुक्ला: प्रतिपदादिकाः ॥ '
इन्दोश्चतुर्लवात्मांशो यावत्कालेन राहुणा । विधीयते मुच्यते च तावत्कालमिता तिथिः ॥
ग्रन्थत्रयी
'कालेण जेण हायइ सोलसभागो उ सा तिही होइ । तह चेव य वुड्डीए एवं तिहिणो समुप्पत्ती ॥'
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176