SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३६ 'तत्र प्रकल्प्य द्वाषष्टिं भागान् शशाङ्कमण्डले । ह्रियते पञ्चदशभिर्लभ्यतेंऽशचतुष्टयम् ॥ किन्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमपपत्तं हिट्ठा चंदस्स तं चरइ ॥ तेणं वड्डइ चंदो परिहाणी वावि होइ चंदस्स ।" द्वौ भागौ तिष्ठतः शेषौ सदैवानावृतौ च तौ । एषा कला षोडशीति प्रसिद्धिमगमद् भुवि ॥ कल्प्यन्तेऽशाः पञ्चदश विमाने राहवेऽथ सः । जयत्येकैकांशवृद्ध्या नीतिज्ञोऽरिमिवोडुपम् ॥ तच्चैवम् - स्वीयपञ्चदशांशेन कृष्णप्रतिपदि ध्रुवम् । पुक्त्वांशौ द्वावनावाय शेषषष्टेः सितत्विषः ॥ एतावदाव्रियते तत् प्रत्यहं भरणीभुवा । अहोभिः पञ्चदशभिरेवमाव्रियतेऽखिलम् ॥ चतुर्भागात्मकं पञ्चदशं भागं विधुंतुदः । आवृणोति द्वितीयायां निजभागद्वयेन च ॥ द्यष्टभागात्मकौ पञ्च- दशांशौ द्वौ रुणद्धि सः । षष्टिं भागानित्यमायां स्वैः पञ्चदशभिर्लवैः ॥ त्रिभिर्विशेषकम् । ततः शुक्लप्रतिपदि चतुर्भागात्मकं लवम् । एकं पञ्चदशं व्यक्ती - करोत्यपसरन् शनैः ॥ द्वितीयायां द्वौ विभांगौ पूर्णिमायामिति क्रमात् । द्वाषष्ट्यंशात्मकः सर्वः स्फुटीभवति चन्द्रमाः ॥ - तथाहु: - Jain Education International इन्दोः विधीयमनाः स्युः कृष्णाः प्रतिपदादिका: । तिथयो मुच्यमानाः स्युः शुक्ला: प्रतिपदादिकाः ॥ ' इन्दोश्चतुर्लवात्मांशो यावत्कालेन राहुणा । विधीयते मुच्यते च तावत्कालमिता तिथिः ॥ ग्रन्थत्रयी 'कालेण जेण हायइ सोलसभागो उ सा तिही होइ । तह चेव य वुड्डीए एवं तिहिणो समुप्पत्ती ॥' For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy