SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३५ पर्युषणातिथिविनिश्चयः ॥ __ तथा सति हि 'क्षये पूर्वे'त्यत्र 'क्षयेऽनौदयिकी कार्ये'त्येवं मुख्यशब्दघटितस्यैव प्रतिपादनस्य युक्तत्वं स्यात् । लक्षणायां विशेषाभावात् । किञ्च, क्षीणतिथौ यथा पूर्वतिथिविद्धत्वं तथोत्तरतिथिविद्धत्वमपि वर्तत एव । तत्र पूर्वतिथिविद्धत्वेनैव प्रामाण्यं न तूत्तरतिथिविद्धत्वेनेत्यत्राप्युत्तरविद्धत्वात् पूर्वविद्धत्वे विशेषाभावेन बीजाभावात् यत्त्वितिपक्षस्यायुक्तत्वमेव, व्यवच्छेदफलाभावे व्यवच्छेदस्य वैयर्थ्यात् । न च क्षीणतिथावुत्तरतिथिविद्धत्वमेव नास्तीति वाच्यम् । सिद्धान्तानुसारेण तत्रोत्तरतिथिविद्धत्वाभावेऽपि टिप्पनकानुसारेण तत्रोत्तरतिथिविद्धत्वावश्यंभावात् । तत्र क्षयदिनस्य तिथित्रयस्पर्शित्वनियमात् । 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' तिवचनस्यापि टिप्पनकानुसारितिथिविषयकत्वमेव । अन्यथा 'वृद्धौ कार्या तथोत्तरे' त्युक्तिरेवाऽसङ्गता स्यात् । सिद्धान्तानुसारेण तिथेरहोरात्रप्रमाणन्यूनप्रमाणतया तिथेः क्षयेऽपि तिथिवृद्धेरभावात् । तिथि-तिथिप्रमाण-तिथिपातस्वरूपं चैवं सिद्धान्तानुसारि, श्रीलोकप्रकाशे'साधारणासाधारण-मण्डलान्येवमूचिरे । सम्प्रतीन्दोवृद्धिहानि-प्रतिभासः प्ररूप्यते ॥ अवस्थितस्वभावं हि स्वरूपेणेन्दुमण्डलम् । सदापि हानिर्वृद्धिर्वा येक्ष्यते सा न तात्त्विकी ॥ केवलं या शुक्लपक्षे वृद्धिानिस्तथाऽपरे । राहुविमानावरण-योगात् सा प्रतिभासते ॥ तथा हि- ध्रुवराहुः पर्वराहु-रेवं राहुविधा भवेत् । ध्रुवराहोस्तत्र कृष्ण-तमं विमानमीरितम् ॥ तच्च चन्द्रविमानस्य प्रतिष्ठितमधस्तले । चतुरङ्गलमप्राप्तं चारं चरति सर्वदा ॥ तेनापावृत्त्य चाकृत्त्य चरत्यधः शनैः शनैः । . वृद्धिहानिप्रतिभासः पोस्फुरीतीन्दुमण्डले ॥' । तथोक्तम्-"चंदस्स नेव हाणी न वि वुड्डी वा अवढिओ चंदो । सुक्किलभावस्स पुणो दीसइ वुड्डी य हाणी य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy