________________
१३४
ग्रन्थत्रयी ननु, तत्रौदयिकत्रयोदश्याश्चतुर्दशीत्वेनैव स्वीकारः । त्रयोदशीतिव्यपदेशस्यापि तत्राभावात्, चतुर्दश्येवेति तत्र व्यपदिश्यमानत्वादिति चेत् ।
तर्हि घट्टकुट्यां प्रभातमायातमेव । 'क्षये पूर्वा तिथिः कार्ये'ति वचनप्रामाण्यात चतुर्दश्याः क्षये तत्पूर्वोदयिकी त्रयोदशी चतुर्दशीत्वेन प्रमाणीकार्येति स्वीकृत एव चौदयिकत्रयोदश्यां चतुर्दश्यभेदाध्यारोपः । अन्यथा क्षीणचतुर्दश्याराधना त्रयोदश्यां क्रियमाणा चतुर्दश्याराधनाया व्यपदेशमेव न लभेत । प्रतीतमेव चाबालगोपालं चतुर्दश्याः क्षयेऽपि तादृशव्यपदेशः, 'अद्यास्माभिः पौषधोपवासादिना चतुर्दश्याराधना विहिते'ति । जिनप्रतिमायामपि क्रियमाणा वन्दनपूजनाधाराधना तब भगवदभेदाध्यारोप एव जिनाराधनाव्यपदेशं लभते, नान्यथेति ।।
एतेन चतुर्दश्या औदयिकत्वलाभे चतुर्दश्यामेव चतुर्दश्याराधना कार्या । तस्या औदयिकत्वाभावे तु 'क्षये पूर्वे' तिवचनात् तत्पूर्वस्यामौदयिकत्रयोदश्यामेव चतुर्दश्याराधना कार्येति न प्रागुक्तदोषापत्तिरित्यपि निरस्तम् ।।
तथा सति 'क्षये पूर्वा तिथिः कार्ये'त्यत्र प्रथमान्ततिथिपदघटितात् तादृशवाक्यात तदर्थालाभात्, 'क्षये पूर्वतिथौ कार्ये' ति सप्तम्यन्ततिथिपदघटितस्यैव वाक्यसन्दर्भस्य कर्तव्यतापत्तेश्च ।
यत्तु 'क्षये पूर्वा तिथि: कार्ये' त्यस्यायमर्थ:-'क्षये-चतुर्दश्यादिक्षये पूर्वापूर्वविद्धा त्रयोदश्यादिविद्धैव तिथि:-सा क्षीणा चतुर्दश्यादितिथिः कार्या-प्रमाणतया विधेयेति ।' तथा च चतुर्दश्यादावौदयिकत्वलाभे औदयिक्येव सा प्रमाणीकार्या । तदलाभे तु पूर्वविद्धैव सा प्रमाणीकार्येति । - तदप्यसत् । तादृशार्थे प्रमाणाभावात् । पूर्वपदस्य गङ्गादिपदस्य तीरत्वादिनेव शक्यावृत्तिरूपेण पूर्वविद्धत्वेनैव बोधकतया जहत्सवाख्यलक्षणापत्तेश्च ।
किञ्च, कलिङ्गः साहसिक-इत्यत्रेवात्र प्रसिद्धिरूपरूढेरभावात् प्रयोजनमवश्यं वाच्यम् । यथा-गङ्गायां घोषः, इत्यत्र, गङ्गातटे घोषः इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनं रूढि-प्रयोजनयोरन्यतरं विनापि यस्य कस्यचित् सम्बन्धिनो लक्षणेऽतिप्रसङ्गापत्तेः ।
न चात्रैवं किञ्चिदपि प्रयोजनमुपलभ्यते । न चौदयिकत्वालाभेऽनौदयिक्येव सा कार्येत्येवार्थमा बोधनरूपं प्रयोजनमिति वक्तुं साम्प्रतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org