SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पर्युषणातिथिविनिश्चयः ॥ त्रयोदशी किं त्रयोदशीत्वेनोपादेया किं वा चतुर्दशीत्वेन ? आद्ये, त्रयोदश्या एवाराधनं जातम्, न तु चतुर्दश्या, इति चतुर्दश्याराधनाया अनवकाशात्तद्विलोपः । द्वितीये तु स्वीकृत एवाऽभेदाध्यारोप इति । स्यादेतत् । चतुर्दशीक्षये पूर्वा तिथिरौदयिकी त्रयोदश्येवाराध्यत्वेनोपादेया, इत्यत्र यदा चतुर्दश्याः क्षयः स्यात्तदा चतुर्दश्याराधना- साधुवन्दन - चतुर्थकरणचैत्यपरिपाटि - पाक्षिकप्रतिक्रमणादिरूपा तत्पूर्वस्यां तिथावौदयिक्यां त्रयोदश्यामेव विधेया । इत्येतदेव तात्पर्यमिति चेत् । I १३३ न । एवं हि चतुर्दश्याराधना त्रयोदश्यामेव जाता, न तु चतुर्दश्यामिति चतुर्दश्यां तदकरेणन प्रायश्चित्तापत्तिः । शास्त्रे च चतुर्दशीरूपपाक्षिकाराधनायाश्चतुर्दश्यामेव कर्त्तव्यतोक्तेः । तत्र तदकरणे प्रायश्चित्तोक्तेश्च । यदुक्तं महानिशीथ - निशीथ-व्यवहारावश्यकचूर्ण्यादौ, तथा हि - 'संते बले वीरियपुरिसयारपरक्कमे अट्ठमी - चउद्दसी - नागपंचमी - पज्जोसवणाचाउमासीए चउत्थट्ठमटुं न करेइ, पच्छित्त' मिति । 'अट्टमीए पक्खिए चउत्थं चउमासीए छटुं संवच्छरीए अट्ठमं न करेइ, पच्छित्त' मिति । 'एएस चेव चेइयाई साहुणो वा जे आणाए विहिए ठिआ, ते न वदंति पच्छित्तमिति । 'एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसाधूनां वाऽवन्दने प्रत्येकं प्रायश्चित्तमिति । 'अट्टमी - चउद्दसीसुं अरहंता साहुणो य वंदेयव्वा' इति । 'अट्ठम छटु- चउत्थं संवच्छर- चाउमास पक्खेसु । पोसहियतवे भणिए बितियं असहू गिलाणेसु ॥' इति । 'अट्ठमी - चउद्दसीसु उववासकरण' मिति च । एवं च सर्वसम्मतस्य तत्तत्तिथ्याराधनायास्तत्तत्तिथिकर्त्तव्यता त्वनियमस्य विराधनाप्रसङ्गोऽपि दुर्निवारः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy