SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३२ ग्रन्थत्रयी किञ्च, यथा जिनप्रतिमायां जिनाभेदाध्यारोपं विना'ऽनेन सूरिणा जिनप्रतिष्ठा कृता, मया जिनपूजा विहिता, इदं जिनमन्दिरं वर्तते' इत्यादयो व्यवहाराः, तत्र जिनप्रतिमाया अग्रे शकस्तवादिपठनम्, अङ्गाग्रभावभिन्नं पूजाविधानम्, अवस्थात्रयध्यानं चेति सर्व नोपपद्येत, तथा चतुर्दश्यष्टम्यादिक्षयेऽप्यौदयिकत्रयोदशीसप्तम्यादिषु चतुर्दश्यष्टम्याद्यभेदाध्यारोपं विनापि 'अद्य चतुर्दशी वर्तते, अद्याष्टमी वर्त्तते, अद्य मया चतुर्दशी आराधिता, अद्याष्टमीपर्व वर्तत इति मया पौषधः कृतः' इत्यादयो व्यवहाराः चतुर्दश्यादिपर्वतिथिनिमित्तकपाक्षिकप्रतिक्रमण-चैत्यपरिपाटि-साधुवन्दनपौषधोपवासादिव्रतनियमादिकं चेति सर्वमपि नोपपद्येत । 'उदयंमि जा तिही सा प्रमाणं' इत्यादिनौदयिकचतुर्दश्यादेरेव प्रमाणतया कर्तव्यतानुज्ञानात् । टिप्पनके चतुर्दश्यादिक्षये चौदयिकचतुर्दश्यादेरलाभात् । . तस्माद् यथा जिनाभावे आराधनायां जिनप्रतिमैव जिनरूपा मन्तव्या, तथा टिप्पनके औदयिकचतुर्दश्याद्यभावे आराधनायां 'क्षये पूर्वा तिथिः कार्ये'ति वचनप्रामाण्यात तत्पूर्वा तिथिगैदयिकत्रयोदश्यादिरेवौदयिकचतुर्दश्यादिरूपा मन्तव्येति सिद्धम् । एवं परमात्मप्रतिमायां यथा परमात्माभेदाध्यारोपं विना परमात्मविषयकभावोल्लासस्यैवाऽनुद्भवःतथा टिप्पनके औदयिकचतुर्दश्याद्यभावे आराधनायामौदयिकत्रयोदश्यादिष्वौदयिकचतुर्दश्याद्यभेदाध्यारोपं विना तत्र चतुर्दश्यादिपर्वविषयकभावोल्लासस्याप्यनुद्भव एवेत्यपि बोध्यम् । ननु क्षये पूर्वी तिथिमा॑ह्या' इत्यत्र क्षये-चतुर्दश्यादितिथिक्षये पूर्वैव-त्रयोदश्यादितिथिरेव ग्राह्या-आराध्यत्वेनोपादेया, इत्येवार्थो ज्यायान् । किमर्थमारोपादिकल्पनमिति चेत् । न । तत्राऽऽरोपस्य सप्रमाणं युक्तियुक्तत्वस्य दर्शितत्वात् । किञ्चैवं सति चतुर्दशीक्षये त्रयोदश्या एवाराध्यत्वं प्राप्तम्, पूर्वतिथितया तस्या एव तत्राराध्यत्वेनोपादेयत्वात् । न तु चतुर्दश्याः, इति तस्या अनाराध्यतैव प्रसक्ता । तथा च चतुर्दशीक्षये तदाराधनोपपत्तये विहितं व्याख्यानं तदाराध्यत्वमपि लोपयतीति तदाराधनमिच्छतस्तव तदाराध्यत्वमेव विलुप्तमिति वृद्धिमिच्छतो मूलमपि ते विनष्टमिति न्यायापत्तिः । किञ्च, चतुर्दशीक्षये पूर्वा तिथिौदयिकी त्रयोदश्याराध्यत्वेनोपादेया । इत्यत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy