________________
पर्युषणातिथिविनिश्चयः ॥
१३१
प्रत्यक्षस्यानुमानस्य तथा शास्त्रस्य गोचरे. । उक्तन्यायेन संवादि-भ्रमाः सन्ति हि कोटिशः ॥१०॥
अन्यथा मृत्तिका - दारु-शिलाः स्युर्देवताः कथम् । अग्नित्वादिधियोपास्यां कथं वा योषिदादयः ॥ ११ ॥ अयथावस्तुविज्ञानात् फलं लभ्यत ईप्सितम् । काकतालीयतः सोऽयं संवादिभ्रम उच्यते ॥ १२ ॥ स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः । ब्रह्मतत्त्वोपासनापि तथा मुक्तिफलप्रदा ॥ १३ ॥ इति ।
इत्थं च संवादिभ्रमस्यार्थक्रियाकारित्वमविरुद्धमिति सिद्धम् । एवमनङ्गीकारे च प्रतिष्ठितप्रतिमादयोऽपि जिनत्वेन पूज्या न भवेयुः । नैव वा वन्दनपूजनादिफलप्रयोजिकाश्च भवेयुरिति प्रतिमापूजादिविलोपापत्तिः प्रतिष्ठाविधिवैयर्थ्यापत्तिश्च दुर्निवारा तव प्रसज्येत । तस्मात् चतुर्दशीक्षये सोमवासरे औदयिकत्रयोदश्यां चतुर्दश्यभेदारोपस्यापि संवादिभ्रमरूपतयाऽऽराधनां प्रति प्रयोजकत्वं निर्विरोधमेव सिद्धम् ।
न च तस्य संवादिभ्रमत्वे किं मानमिति वाच्यम् ।
'क्षये पूर्वा तिथिः कार्ये' ति विधिप्रयोज्यत्वस्यैव तत्र मानत्वात् । प्रतिमायां भगवदभेदाध्यारोपस्य संवादिभ्रमत्वेऽपि 'प्रतिष्ठितां प्रतिमां पूजये' दितिविधिप्रयोज्यत्वस्यैव प्रमाणतयेष्टत्वादिति ।
एतेन प्रतिमाप्रतिष्ठापूजादावारोपज्ञानस्योपादेयत्वेऽप्यत्र तिथ्याराधनायां तिथौ तस्यानुपादेयत्वमेवेत्यपि निरस्तम् । द्वयोरपि तुल्यकक्षत्वात् । प्रागुक्तयुक्त्या तिथावहौरात्रव्यापित्वाभावे तत्तत्तिथिनिमित्तकशास्त्रप्रतिपादिताहोरात्रव्यापिपौषधादिव्रतनियमाराधनान्यथानुपपत्तेः । 'आदित्योदयवेलाया' मित्यादिवचनप्रामाण्याभ्युपगमाच्च । टिप्पनके तिथावहोरात्रव्यापित्वाभावेऽप्याराधनायां तत्राहोरात्रव्यापित्वस्य तवाप्यवश्यं स्वीकार्यतया
Jain Education International
तिथावप्यारोपज्ञानस्य तवाप्युपादेयत्वात् ।
इत्थमेव च टिप्पनके चतुर्दशीक्षये तत्र दिने आराधनायां त्रयोदशीतिव्यपदेशस्याऽसम्भवोऽपि घटते । त्रयोदश्या एव तत्र चतुर्दशीत्वेन स्वीकारात् । अन्यथा तत्र दिने टिप्पनके त्रयोदश्या एक आदित्योदयवेलायां सत्त्वेनाऽहोरात्रव्यापित्वस्यापि तस्या एव मन्तव्यतानुज्ञानात् कथं तत्र दिने चतुर्दशीतित्वव्यपशोऽपीति ? 1
For Private & Personal Use Only
www.jainelibrary.org