________________
१३०
ग्रन्थत्रयी विसंवादिभ्रमस्यार्थक्रियाकारित्वाभावेऽपि संवादिभ्रमस्यार्थक्रियाकारित्वाविरोधात् । तथा हि-कस्मिश्चिन्मन्दिरेऽपवरकस्यान्तर्दीपस्तिष्ठति । तस्य प्रभा बहिनिदेशे रत्नमिव वर्तुलोपलभ्यते । तथाऽन्यस्मिन्मन्दिरेपवरकस्यान्तःस्थितस्य रवस्य प्रभा बहिनिदेशे दीपप्रमेव रत्नसमानोपलभ्यते । तत्र तथाविधं प्रभाद्वयं दूरतो दृष्ट्वा अयं मणिरयं मणिरिति बुझ्या द्वौ पुरुषावभिधावनं कुरुतः । तयोर्द्वयोरपि प्रभाविषये जायमानं . मणिज्ञानं भ्रान्तमेव । तथापि दीपप्रभायां मणिबुद्धिं कृत्वा धावता पुरुषेण मणिर्न लभ्यते, मणेः प्रभायां मणिबुड्या धावता मणिर्लभ्यत एव । अथात्र या दीपप्रभायां मणिभ्रान्तिरस्ति स विसंवादिभ्रम उच्यते । मणिलाभलक्षणार्थक्रियारहितत्वात् । या च मणिप्रभायां मणिबुद्धिरस्ति सा तु मणिलाभलक्षणार्थक्रियाकारित्वात् संवादिभ्रमः कथ्यते।
उक्तश्चायमर्थोऽन्यैानदीपे । तथा हि - 'संवादिभ्रमवद् ब्रह्म-तत्त्वोपास्त्यापि मुच्यते । उत्तरे तापनीयेऽतः श्रुतोपास्तिरनेकधा ॥ १ ॥
मणिप्रदीपप्रभयो-मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रिया प्रति ॥ २॥ दीपोऽपवरकस्यान्त-वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथाऽन्यत्र तद्वद् दृष्टय मणेः प्रभा ॥ ३ ॥ - दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याऽभिधावतोः ।
. प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानं द्वयोरपि ॥ ४ ॥ न लभ्यते मणिर्दीप-प्रभा प्रत्यभिधावता । प्रभायां धावताऽवश्यं लभ्येतैव मणिर्मणेः ॥ ५ ॥
दीपप्रभामणिप्रान्ति-विसंवादिभ्रमः स्मृतः ।।
मणिप्रभामणिप्रान्तिः संवादिभ्रम उच्यते ॥ ६ ॥ बाष्पं धूमतया बुवा तत्राङ्गायनुमानतः । वहिर्यदृच्छया लब्धः स संवादिप्रमो मतः ॥ ७ ॥
गोदावर्युदकं गङ्गो-दकं मत्त्वा विशुद्धये ।
सम्प्रोक्ष्य शुद्धिमाप्नोति स संवादिभ्रमो मतः ॥ ८ ॥ ज्वरेणाप्तः सन्निपातं प्रान्त्या नारायणं स्मरन् । मृतः स्वर्गमवाप्नोति स संवादिभ्रमो मतः ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org