________________
१२९
पर्युषणातिथिविनिश्चयः ॥ प्रतिमायांभगवदभेदाध्यारोपं विना न तावद् वन्दनपूजनादिफलं हेतुसहस्रेणापि सम्पद्यते। स च काठपाषाणत्वादिनाऽभेदप्रत्यक्षे सति स्वरसतो नोदेतीत्याहार्य एव सम्पादनीयः । आहार्यत्वं चेच्छाजन्यत्वम् । इच्छ चेष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिः कल्पनीयः ।
तथा चाहार्यभगवदभेदाध्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्वप्रयोजकेच्छाजनकज्ञानजनकज्ञानविशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्वमित्युक्तं भवति' । इति तद्वृत्तौ नयामृततरङ्गिण्याम् । ,
एवमत्रापि चतुर्दशीक्षये सोमवासरे औदयिकत्रयोदश्यामौदयिकचतुर्दश्यभेदारोपं विना 'अट्ठमी चउद्दसीसु अ नियमेण हविज्ज पोसहिओ' इत्यादिवचनप्रासं चतुर्दश्यां चतुर्दश्याराधनं तज्जनितकर्मनिर्जरारूपफलं च नैव सम्पद्यते, चतुर्दश्याराधनस्यौदयिकचतुर्दशीप्रतिबद्धत्वात् । तत्र दिने चौदयिकत्रयोदश्या एव सत्त्वेनौदयिकचतुर्दश्यभावात् । चतुर्दश्यभेदारोपश्च तत्र सोमवासरे औदयिकत्रयोदशीत्वेन भेदज्ञाने सति स्वरसतो नोदेतीत्याहार्यारोप एव सम्पादनीयः । आहार्यत्वं चाहार्यज्ञानं मे भवत्वितीच्छाजन्यत्वम्। इच्छा चाहार्यज्ञानं मदिष्टसाधनमितीष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनायात्रापि प्रतिष्ठितां प्रतिमा पूजयेदित्यादिवाक्यलक्षणपूजादिविधिना प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदिति ज्ञानविधिकल्पनावत, आराधनायां 'क्षये पूर्वा तिथि: कार्ये' ति वाक्यलक्षणक्षीणतिथिविषयकप्रामाण्यविधिनैव पर्वतिथिक्षये तत्पूर्वी तिथिमेव तत्पर्वमें तिथ्यभिन्नत्वेनाध्यारोपयेदिति सामान्यतः चतुर्दश्यादिक्षये तत्पूर्वामौदयिकत्रयोदशीमेवीदयिकचतुर्दश्यभिन्नत्वेनाध्यारोपयेदिति । विशेषतच ज्ञानविधिरपि कल्पनीय एवेति ।
अध्यारोपश्चात्र सोमवासरे औदयिकत्रयोदश्यां चतुर्दश्येवेयम्, औदयिकचतुर्दश्येवेयम्, औदयिकचतुर्दशीदिन एवायमित्याद्याकारकबोधरूप एव । तथा च चतुर्दशीक्षयेऽपि चतुर्दश्याराधनमौदयिकचतुर्दश्यामेव जातमिति न तद्विलोपो न वाऽव्यवस्था, नैव चाज्ञाभङ्गादिरूपप्रत्यवायलेशोऽपि । यथा जिनाभावेऽपि जिनप्रतिमायां जिनेश्वरभगवदभेदाध्यारोपेणैव शास्त्रविहितजिनपूजनाधाराधना भवति । न वा जिनपूजनाधाराधनाविलोपो नैव च जिनपूजनाधकरणप्रत्ययप्रत्यवायलेशोऽपीति सर्व निर्दुष्टमेवोपपत्रमिति ।
न चारोपज्ञानं प्रमज्ञानमेव । भ्रमस्य चार्थक्रियां प्रत्यायोजकत्वात कथमत्र तस्य प्रयोजकत्वमिति वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org