SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२८ ग्रन्थायी वैयर्थ्यापत्तेस्तादवस्थ्यात् । ___ एतेन-तिथावौदयिकत्वलाभे सर्वत्रौदयिक्येव ग्राह्या, औदयिकत्वेनैव प्रामाण्यात् । परं तिथिक्षये तु तत्रौदयिकत्वस्यासत्त्वादनौदयिक्येव सा प्रमाणीकार्येत्यपि निरस्तम् । एवं हि 'क्षये पूर्वा तिथिः कार्ये' त्यत्र 'क्षयेऽनौदयिकी कार्ये' ति अनौदयिकत्वबोधकपदघटितस्यैव वचनसन्दर्भस्य कर्त्तव्यत्वापत्तेः । अन्यथा तत्र पूर्वतिथ्युपादानस्यैव वैयर्थेन 'क्षये पूर्वे' ति वचनस्य वैयर्थ्यापत्तेः । तथा च प्रागुक्तारोपज्ञानापत्तिर्दुरुद्धरैवेति चेत् । अत्रोच्यते तथा हि-किमिदमारोपज्ञानमाहार्यरूपमापाद्यते किं वाऽनाहार्यरूपम् : बाधकालीनेच्छजन्यं हि ज्ञानमाहार्यज्ञानम् । तद्भिनं ज्ञानमनाहार्यज्ञानमिति । ___ तत्र न द्वितीयः पक्ष:-'क्षये पूर्वे' ति वचनप्रयोज्यस्य तादृशारोपज्ञानस्याऽनाहार्यत्वस्यैवाऽसिद्धेः । प्रथमः पक्ष इति चेत् । तर्हि इष्टापत्तिरेव । तिथिक्षये तदाराधनायां कर्त्तव्यतायां तत्रौदयिकत्वलाभाय 'पूर्वा तिथिः कार्ये' ति वचनेन तबाहार्यारोपज्ञानस्यैव विहितत्वात् । टिप्पनके चतुर्दश्यादिक्षये तत्र दिने चतुर्दश्या औदयिकत्वबाधेऽपि तदाराधनायां कर्त्तव्यतायां तत्रौदयिकत्वलाभाय 'क्षये पूर्वे' तिवचनप्रयोज्यस्य 'तत्पूर्वा तिथिगैदयिकी त्रयोदश्येव चतुर्दशीत्वेन प्रमाणीकार्ये'त्याकारकस्य तत्राहार्यारोपात्मकस्यैव चतुर्दशीत्वज्ञानस्य प्रयोजकत्वात् । न चाहार्यारोपज्ञानं नाराधनायां प्रयोजकमिति वाच्यम् । एवं हि जिनप्रतिमाया अप्याहार्यभगवदभेदाध्यारोपविषयत्वेन वन्दनपूजनादिफलहेतुता शास्त्रप्रतिपादिता न स्यादेव । यदुक्तं नयोपदेशे - 'प्रतिष्ठितप्रत्यभिज्ञा-समापन्नपरात्मनः। आहार्यारोपतः सा च द्रष्ट्रणामपि धर्मभूः ॥' 'वन्दनपूजनादिफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह-प्रतिष्ठितेति । सा स्थापना प्रतिष्ठिंतप्रत्यभिज्ञया समापन्नो यः परमात्मा-भगवान्, तस्याहार्यारोपतः राष्ट्रणामुपलक्षणाद् वन्दकानां पूजकानां च धर्मभू-धर्मकारणं भवति । अयं भावः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy