________________
पर्युषणातिथिविनिश्चयः ॥
१२७ विचारादौ क्वचिदपि शिष्टपुरुषैः समाप्तिघटितलक्षणस्यापरिग्रहात्, साक्षिपाठतयाऽपि शिष्टपुरुषैः क्वचिदपि तस्यानुपात्तत्वेन शिष्टपुरुषैरपरिग्रहोऽपि तस्य स्पष्ट एवेति ।
एवं यत्र गुरुवासरे षष्टिं घटिका यावदष्टमी, शुक्रवासरेऽपि चत्वारिंशत्पलानि यावदष्टमी, तदनु च नवमी, तत्र गुरुवासरे कस्या अपि तिथेः समातेरभावात् समाप्तिघटितलक्षणस्य तव मते तत्र गुरुवासरेश्व्याप्तिदोषग्रस्तत्वमपि । नहि कोऽपि रव्यादिवारलक्षणो दिनः तिथिव्यवहारशून्यो लोके शास्त्रे चाभ्युपगम्यते । तथा च त्वन्मते समाप्तिघटितलक्षणे गुरुवासरेऽष्टम्याः समाप्त्यभावेन कस्या अपि तिथे: समाप्त्यभावेन तिथिसामान्याभावापत्त्या 'अद्य गुरुवासरे न कापि तिथिर्वर्तते किन्तु तिथिशून्योऽयं गुरुवासरः' इत्यपूर्वव्यवहारापत्तिरपि दुर्निवारेति ।।
न च तत्र दिनेऽपि भोगघटितलक्षणेनोदयघटितलक्षणेन वा तिथिप्रामाण्यं तिथिव्यवहारश्चेति वाच्यम् ।
___ क्वचित् समाप्तिघटितलक्षणेन क्वचिद्भोगघटितलक्षणेनोदयघटितलक्षणेन वा तिथिप्रामाण्यं तिथिव्यवहारचेत्यत्र विनिगमकप्रमाणाभावात् । स्वेच्छया विनिगमकत्वकल्पनाया निर्मूलत्वेन तस्या अनुपादेयत्वाच्च । - किञ्च समातिमत्त्वस्य प्रामाण्यप्रयोजकतायामौदयिकत्वेन प्रामाण्यप्रयोजक प्रतिपादकपूर्वाचार्यनिबद्धपूर्वाचार्यपरिगृहीतप्रागुपदर्शितशास्त्रवचनानामनवकाशत्वेन वैयर्थ्यापत्तिः । 'क्षये पूर्वा तिथि: कार्या वृद्धौ कार्या तथोत्तरे'ति विशेषवचनस्यापि वैयर्थ्यापत्तिश्च, प्रयोजनाभावात् । न च तवेष्टापत्तिरपि वक्तुं शक्या । प्रावचनिकानां पूर्वाचार्यभगवतां वचनानां वैयर्थ्यकथने स्वमतिमान्द्यदोषादनवगततद्वचनतात्पर्यार्थकस्य तव महाशातनाप्रसङ्गात् । एतेन-क्षीणवृद्धतिथ्यतिरिक्ततिथावौदयिकत्वेन प्रामाण्यम्, क्षीणतिथौ वृद्धतिथौ च समाप्तिमत्त्वेनैव प्रामाण्यमस्तु । यतस्तिथिक्षये यत्र दिने पूर्वा तिथिस्तत्र क्षीणतिथेः समाप्तिसत्त्वात् । तिथिवृद्धौ च यत्र दिन उत्तरा तिथिस्तत्र वृद्धतिथेः समाप्तिसत्त्वादित्यपि निरस्तम् । उक्तदोषानतिवृत्तेः । एतदर्थस्यापि निर्मूलत्वाच्च । तत्र समाप्तिसत्त्वेऽपि तस्याः प्रामाण्यप्रयोजकत्वे प्रमाणाभावात् । औदयिकत्वेनैव प्रामाण्यस्य शास्त्रे लोके च व्यवस्थापितत्वात् ।
__किञ्चैवं सति 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इत्यत्र 'समाप्तैव तिथिः कार्या क्षये वृद्धौ तथैव चे' त्येतादृशसमाप्तिवाचकपदघटितत्वदभिमततादृशार्थप्रतिपादकस्यैव वचनसन्दर्भस्य कर्त्तव्यतापत्तेः । अन्यथा 'क्षये पूर्वे' तिवचनस्यैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org