________________
१२६
ग्रन्थत्रयी त्रयोदशीतिथित्वेन । तत्र त्रयोदशीभोगसत्त्वेऽपि त्रयोदश्यास्तत्र दिने समाप्तिमत्त्वाभावात् । किन्तु सोमवासर एव त्रयोदशीतिथित्वेन स्वीकार्यस्तत्रैव दिने त्रयोदश्यां समातिमत्त्वात् । तथा च चतुर्दशीक्षयेऽपि सोमवासरे चतुर्दश्याः समाप्तिमत्त्वेन सोमवासर एव चतुर्दशीतिथित्वेनापि स्वीकार्यस्तल्लक्षणसत्त्वात् । तत्राऽऽरोपज्ञानापत्तेरप्यभावात् चतुर्दशीसमाप्तिमत्येव सोमवासरे चतुर्दशीज्ञानात् ।।
न च तत्र दिने त्रयोदश्याः समाप्तत्वेन कथं चतुर्दश्या अपि समाप्तत्वमिति वाच्यम् ।
तस्मिन् सोमवासरे द्वयोरपि तयोः समाप्तिमत्त्वेन तस्या अपि समाप्तिमत्त्वाविरोधादिति चेत् ।
न । तिथिसामान्ये 'उदयंमि जा तिही सा पमाणं' इत्यादिनौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वस्य तत्र तत्रोक्तत्वेन तत्र समाप्तिमत्त्वेन प्रामाण्यप्रयोजकतायां प्रमाणाभावात्। टिप्पनके एकस्मिन् दिने तिथिद्वयसत्त्वेऽप्याराधनायामेकस्मिन् दिने तिथिद्वयमन्तव्यतायां प्रमाणाभावात् । 'आदित्योदयवेलाया' मित्यादिवचनप्रामाण्यात् तत्र दिने एकस्यास्त्रयोदश्या एवाहोरात्रव्यापित्वमन्तव्यताया अनिवार्यत्वेन तत्र चतुर्दश्यभेदाध्यारोपं विना चतुर्दशीमन्तव्यताया अनवकाशाच्च । .
न च, समाप्तिघटितलक्षणे को विरोधः ? किं शास्त्रविरोधो वा लोकव्यवहारविरोधो वा? को वा दोषः ? किमव्याप्तिर्वाऽतिव्याप्तिर्वाऽसम्भवो वेति वाच्यम् ।
समाप्तिघटितलक्षणस्य शास्त्रलोकव्यवहारोभयविरोधित्वात्, शिष्टपुरुषैः परिगृहीतत्वाभावात्, अव्याप्तिदोषग्रस्तत्वाच्च ।
तथा हि-शास्त्रे पूर्वाचार्य:-'उदयंमि जा तिहि प्रातः प्रत्याख्यानवेलायाम्'जासिं उदेइ सूरो' 'जीए उदेइ सूरो' इत्यादिभिर्वचनैरुदयघटितलक्षणस्यैव सर्वत्र प्रणयनात् शास्त्रविरोधः । एवं सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् 'आदित्योदयवेलायाम्',
'यां तिथि समनुप्राप्य उदयं याति भास्कर ।
सा तिथि सकला ज्ञेया दानस्नानजपादिषु ।' इत्यादिभिश्च वचनैर्लोकव्यवहारेऽप्युदयघटितलक्षणस्यैव परिग्रहालोकव्यवहारविरोधोऽपि। श्राद्धविधि-विचारामृतसङ्ग्रह-हीरप्रश्न-सेनप्रश्न-धर्मसङ्ग्रह-तिथिहानिवृद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org