________________
पर्युषणातिथिविनिश्चयः॥
१२५ तत्र दिने चतुर्दशीज्ञानं नारोपरूपम्, आरोपलक्षणस्याभावात् । न हि घटपटवति भूतले घटपटौ' स्तः इति ज्ञानम्, कनकरत्नमयकुण्डले कनकरत्नज्ञानं वारोपरूपं भवितुमर्हतीति वाच्यम् ।
तत्र दिने तद्भोगसत्त्वेऽपि तिथिप्रामाण्ये तद्भोगस्याऽप्रयोजकत्वात् । 'उदयंमि जा तिही सा पमाणं' इत्यादिना तत्र सूर्योदयस्पर्शित्वरूपौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वेनोक्तत्वात् ।
यत्र दिने टिप्पनके यस्यास्तिर्भोगः स्यात्तत्र दिने तस्यास्तिथे: तत्तिथित्वेनाराधनायां प्रामाण्यमित्येवंरीत्या तिथिप्रामाण्ये भोगस्यैव प्रयोजकत्वे 'उदयंमि जा तिही सा पमाणं' इत्यादिना विरोधापत्तिः । तत्रौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वस्योक्तत्वात् । 'उदयंमि' इत्यादेवैयर्थ्यापत्तेश्च । टिप्पनकवचनादेव प्रागुक्तार्थलाभात् ।
किञ्चैवं तत्तत्तिर्भोगस्यापि यथा तत्र दिने व्यादिलक्षणे सत्त्वं तथा तत्पूर्वदिनेऽपि तद्भोगस्य सत्त्वादतिप्रसङ्गापत्तिः । तिथिक्षयदिने च तिथित्रयस्य भोगसत्त्वेन तत्रैकस्मिन्नेव दिने तिथित्रयस्यापि तत्तत्तिथित्वेनाराधनायां प्रामाण्यापत्तिश्च दुरुद्धरा स्यात् ।
न च क्षीणतिथ्यतिरिक्ततिथिस्थले आराधनायां प्रामाण्ये 'उदयंमि' इत्यादिनौदयिकत्वस्य प्रयोजकत्वेऽपि क्षीणतिथौ प्रामाण्ये तद्भोगस्यैव प्रयोजकत्वमिति न प्रागुक्तदोषापत्तिर्न वारोपज्ञानापत्तिरिति वाच्यम् ।
तत्रार्थे प्रमाणाभावात् । 'क्षये पूर्वा तिथिः कार्या' इत्यस्य वैयर्थ्यापत्तेश्च । प्रत्युत तथा सति 'क्षये पूर्वा तिथिः कार्या' इत्यत्र स्थाने-'क्षये भोगदिने कार्या'-यद्वा- 'क्षये भोगवती कार्या'- इत्येवंरूपस्यैव वचनसन्दर्भस्य युक्तत्वेन कर्त्तव्यत्वं स्यात् । न चैवमस्तीति न क्षयस्थलेऽपि भोगस्य प्रामाण्यप्रयोजकत्वं युक्तियुक्तं प्रतिभातीति । तथा च प्रागुक्तसोमवासरे औदयिक्यां त्रयोदश्यां चतुर्दशीत्वाभावेन तत्र चतुर्दशीत्वज्ञानमारोपरूपमेव। प्रागुक्तारोपलक्षणस्य तत्र सुघटत्वात् ।।
अथ तिथिसामान्ये समाप्तिमत्त्वस्यैव प्रामाण्यप्रयोजकताऽस्तु । तथा हि यस्मिन्नेवादित्यवारलक्षणे दिने या तिथिः समाप्यते स एवादित्यवारलक्षणो दिवस आराधनायां तत्तिथित्वेन प्रमाणतया स्वीकार्यः । यथाऽऽश्विनशुक्लपक्षे आदित्यदिने साधिके द्वे घटिके यावद् द्वादशी, तदनु च त्रयोदशीति आदित्यदिने द्वादश्यां समाप्तिमत्त्वेनादित्यदिनो द्वादशीतिथित्वेनाराधनायां प्रमाणतया स्वीकार्यः, न तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org