________________
१२४
ग्रन्थत्रयी अत्र क्षयपदस्य सनिरूपकत्वात् तिथिपदसमभिव्याहाराच्च तिथिक्षयपरत्वमेव । तत्रापि पर्वाराधनाप्रकरण एव तत्र तत्र शास्त्रे एतद्वचनस्योपन्यस्तत्वेन मुख्यत्वेन पर्वतिथिविषयकत्वमेवेति । क्षये-पर्वतिथिक्षये, पूर्वा तिथि:-प्रथमोपस्थितत्वेनाऽव्यवहितपूर्वा तिथिः, 'सर्वं वाक्यं सावधारण'मिति नियमात् पूर्वा एव तिथिः, नोत्तरा इत्यपि बोध्यम् । कार्या-तत्तिथित्वेन प्रमाणीकार्या इत्यर्थः । यद्यपि प्रायः सर्वत्र कार्येत्येव पाठः प्रमाणतयोपलभ्यते, तथापि क्वचिदभ्युपगतस्य ग्राह्येति पाठस्योपादेयत्वाग्रहेऽपि नैवार्थभेदोऽत्र कश्चित् ।
तथा च यत्र ख्यादिदिने यस्यां पर्वतिथेः क्षयः स्यात्तत्र ख्यादिदिने आराधनायां तत्पूर्वतिथिरेव तत्पर्वतिथित्वेन प्रमाणीकार्या इति भावः ।
__ यथा टिप्पनके सोमवासरे चतुर्दश्याः क्षयो वर्तते, इति सोमवासरे औदयिक्याश्चतुर्दश्या अलाभेन तत्पूर्वाया तद्दिनव्यापित्वेनाभिमतौदयिकी त्रयोदशीतिथि: सैवाराधनायां चतुर्दशीत्वेन प्रमाणीकार्या । न तु टिप्पनके तद्दिनतिन्यपि तदुत्तरा पूर्णिमा तिथिः चतुर्दशीत्वेन प्रमाणीकार्या । पूर्णिमायाः तत्र दिने टिप्पनके वर्तमानत्वेऽपि तत्र दिने तस्या औदयिकत्वाभावेन चतुर्दशीतिथित्वेन प्रामाण्ये तत्रौदयिकत्वलाभाभावात् ।
तथा च सैव तत्र दिने औदयिकी तद्दिनव्यापिनी त्रयोदशी चतुर्दशीत्वेन प्रमाणीकार्या, सैव च चतुर्दशीत्वेनाऽऽराध्या, सैव च तद्दिनव्यापितया सम्पूर्णा चतुर्दशीत्वेन व्यवपदेश्येति सिद्धम् ।
इत्थं च टिप्पनके पर्वतिथिक्षयेऽपि प्रागापादिता पर्वतिथ्यगाधनाया अव्यवस्थापत्तिविलोपापत्तिश्च दूरोत्सारितैव । नापि 'उदयंमि जा तिही सा पमाणं' इति नियमबाधः । औदयिकत्रयोदश्या एव चतुर्दशीत्वेन कार्यत्वोपदेशात्, औदयिकत्वस्यापि तत्र लाभात् । अत एव नापि 'इयराए कीरमाणीए आणाभंगणवत्था मिच्छत्तविराहणं पावे' इति आज्ञाभङ्गादिप्रत्यवायप्रसङ्गोऽपि । अनौदयिक्यां तिथौ प्रमाणीक्रियमाणायामेव तदापत्तेः । औदयिक्या एव त्रयोदश्याः चतुर्दशीत्वेन प्रमाणीकरणात् तत्रौदयिकत्वस्याऽनपायाच्च।
नन्वेवमपि टिप्पनके चतुर्दशीक्षये सोमवासरे औदयिक्यास्त्रयोदश्या एव सत्त्वेन तत्र चतुर्दशीत्वाभावेन तत्र चतुर्दशीत्वज्ञानमारोपरूपं भविष्यति । अतस्मिस्तदध्यवसाय: समारोपः । यथा शुक्तिकायामिदं रजतमिति हि तल्लक्षणात् ।
न च तत्र दिने टिप्पनके चतुर्दश्या औदयिकत्वाभावेऽपि चतुर्दश्या भोगसत्त्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org