________________
पर्युषणातिथिविनिश्चयः ॥
स्यात् । सङ्क्रान्तितद्भावयोरेव ज्योतिःशास्त्रे मासनिष्ठप्रामाण्याप्रामाण्यप्रयोजकत्वादिति
सर्वं सुस्थमित्यलम् ।
तथा च विवादापत्रे गुरुवासरे 'वृद्धो कार्ये 'ति वचनानुसारेणोक्तयुक्त्याऽऽराधनायां पञ्चमीदिनत्वेन प्रामाण्यनिवृत्त्या चतुर्थीदिनत्वेनैव प्रामाण्यस्य सिद्धौ प्रागुक्ते तवानुमाने तोरसिद्धिः सूपपन्नैवेति हीनबलेनाप्रयोजकेन तेन हेतुना नास्माकं हेतोः सत्प्रतिपक्षत्वमिति । इत्थमेव च व्यभिचारविरोधासिद्धिबाधाऽपि असम्भावितैवात्र ।
१२३
तथा चानुमानादपि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यौदयिकरूपटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिने आराधनायां चतुर्थीदिनात्मकतयैव सिद्धे विवादापत्रे गुरुवासरे, गतवर्षी रविवासरे चैव श्रीपर्युषणापर्वकर्त्तव्यता निराबाधा सिद्धेति । अथ पूर्वम् - 'उदयंमि जा तिही सा पमाणमियराए कीरमाणीए । आणाभंगणवत्था-मिच्छत्तविराहणं पावे ।" इत्याद्युक्तम् ।
अथ यदा टिप्पनके चतुर्दश्यादिपर्वतिथेः क्षयः स्यात् तदा टिप्पनके चतुर्दश्या औदयिकत्वमेव नास्ति । यथाऽऽश्विनशुक्लपक्षे सोमवासरे साधिकाः पञ्च घटिका यावत् त्रयोदशी, तदनु साधिकाश्चतुःपञ्चाशद् घटिका यावत् चतुर्दशी, तदनु कतिपयपलानि यावत् पञ्चदशी । भौमवासरे च साधिका द्वापञ्चाशद् घटिका यावत् पञ्चदशी । अत्र सोमवासरे त्रयोदश्या एवौदयिकत्वं, भौमवासरे च पूर्णिमाया एवौदयिकत्वं चतुर्दश्यास्तु न कुत्रापि दिने औदयिकत्वं वर्त्तते । किन्तु सोमवासर एवान्तर्हितत्वमत एव तस्या अवमाख्या संज्ञा भवति । इयमेव चतुर्दशी क्षीणेत्युच्यते । तिथौ क्षीणत्वं हि सूर्योदयास्पर्शित्वम् । तथा च तत्र चतुर्दशी चतुर्दशीत्वेन कस्मिन् दिने प्रमाणीकार्या ? कस्मिन् दिने च चतुर्दशीपर्वाराधना कार्या ? सोमवासरे त्रयोदश्या एवौदयिकत्वात्, भौमवासरे च पूर्णिमाया एवौदयिकत्वात्, औदयिक्या एव च तिथेः तत्र दिने तत्तिथित्वेन प्रामाण्यात् । किं वा चतुर्दश्याः क्षीणत्वेन चतुर्दश्येवौदयिकी नास्तीति कुत्र तदाराधना स्यादिति तदाराधनमपि क्षीणमेव गणनीयमिति ? | एवं सर्वत्रक्षीणतिथिस्थले तदाराधनाया अव्यवस्थितत्वं विलोपो वा स्यादिति चेत् ।
न । आराधनायां 'क्षये पूर्वा तिथिः कार्या इति श्रीउमास्वातिप्रघोषात्मकविशेषवचनस्यैव शास्त्रानुसारिशास्त्राबाधितसुविहितपरम्परागतस्य सर्वसम्मतस्य तत्र व्यवस्थापकत्वात् पर्वाराधनविलोपस्यानिष्टत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org