________________
१२२
ग्रन्थत्रयी अथ द्वितीयः पक्ष इति चेत् ।
इष्टापत्तिरेव । यतो भाद्रपदादिमासप्रतिबद्ध धर्मकृत्याराधनं टिप्पनके तदृद्धौ प्रथमे भाद्रपदे नैव कर्त्तव्यं एवं चतुर्दश्यादितिथिप्रतिबद्धमपि पाक्षिकादिधर्मकृत्याराधनं टिप्पनके तद्वृद्धौ टिप्पनकोक्तप्रथमचतुर्दश्यादौ नैव कार्यमित्यस्माकमपीष्टमेव । तथा च यथा भाद्रपदवृद्धौ भाद्रपदप्रतिबद्धमेव धर्मकृत्याराधनं प्रथमभाद्रपदे न कर्त्तव्यं न तु तदतिरिक्तमपि, यथा च चतुर्दशीवृद्धौ चतुर्दशीप्रतिबद्धमेव पाक्षिकाद्याराधनं टिप्पनकोक्तप्रथमचतुर्दश्यां न कर्त्तव्यं न तु तदतिरिक्तमपि, चतुर्दशीत्वेनैव तस्या अप्रमाणत्वात् । एवमेव च टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ टिप्पनकोक्तप्रथमपञ्चम्यां पञ्चमीत्वेनाऽप्रमाणत्वात् पञ्चमीप्रतिबद्धं पञ्चम्याराधनमेव तत्र न कर्त्तव्यं न तु तदतिरिक्तं पञ्चम्यप्रतिबद्धं पर्युषणापर्वाराधनमपि । श्रीकालिकाचार्यभगवतोऽनु पर्युषणापर्वाराधनस्य पञ्चमीप्रतिबद्धत्वाभावस्य तवापि सम्मतत्वात् । प्रत्युत 'अंतरा वि य से कप्पई' इत्यनेन तदव्यवहितपूर्वदिन एव तदाराधनं कार्यमिति प्रागेव सुष्ठूपपादितमिति टिप्पनकोक्तप्रथमपञ्चम्यां गुरुवासर एव तदाराधनं युक्तमिति ।
अत्रेदं बोध्यम्-असङ्क्रान्तिमासोऽधिकमासः । यदाह-यदाऽमावास्यामध्ये एका सङ्क्रान्तिलगेदन्या चान्यमासप्रतिपदि तदा सङ्क्रान्तिहीनो मध्येऽधिकमासः । उक्तं च- 'एकोऽमावास्यायां भवेद्रवेः सङ्क्रमः परो दर्शात् ।
ऊर्ध्वं जायेत यदा तदाधिकमासः शुभेऽनिष्टः ॥' इति ।
तथा च टिप्पनके मासप्रामाण्यस्य सङ्क्रान्त्यधीनत्वेन सङ्क्रान्तिरहितस्याधिकमासस्य सर्वथैवाप्रमाणता । तस्मात् टिप्पनके भाद्रपदादिवृद्धौ प्रथमभाद्रपदस्य यथा भाद्रपदत्वेन अप्रामाण्यं तथा श्रावणत्वादिनापि तस्याप्रामाण्यमेव।
__ न चैवं टिप्पनके तिथिवृद्धौ तत्र पूर्वस्यामुत्तरस्यां चोभयत्रापि तिथौ 'उदयंमि जा तिही सा पमाणं' इत्यादिना प्रामाण्यं प्राप्तमेव । तत्र 'वृद्धौ कार्या तथोत्तरे ति विशेषवचनेनाराधनायां टिप्पनकोक्तपूर्वतन्यां प्रामाण्यं निवर्तते । तन्निवृत्त्यन्यथानुपपत्या च तत्र तत्पूर्वतिथित्वेन प्रामाण्यं व्यवस्थाप्यत इति प्राक् सयुक्तिकमुपदर्शितमेव ।
__ न चैवं टिप्पनके वृद्धतिथिविषयकमिवाधिकमासविषयकमाराधनायां प्रथमभाद्रपदादौ प्रामाण्यनिवर्तकं तन्निवृत्त्यन्यथानुपपत्त्या च तत्र श्रावणत्वादिना प्रामाण्यव्यवस्थापकं वचनम् । येन प्रथमभाद्रपदादावाराधनायां श्रावणत्वादिना प्रामाण्यापत्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org