________________
पर्युषणातिथिविनिश्चयः॥
१२१ किञ्चैवं पाक्षिकचतुर्मासिकसांवत्सरिकाराधनायास्तु सर्वथैव त्वन्मते विलोपः । शास्त्रे पाक्षिकचतुर्मासिकयोश्चतुर्दश्यामेव कर्तव्यतोपदेशात् । सांवत्सरिकस्य च भाद्रशुक्लचतुर्थ्यामेव कर्त्तव्यतोपदेशात् । चतुर्थीचतुर्दश्योश्च रिक्ततिथित्वेन ज्योतिःशास्त्रे त्याज्यत्वोक्तेराराधनायामपि त्याज्यत्वाभ्युपगमात् । तस्माद् रिक्तादितिथीनां यथा तत्र तत्र ज्योतिःशास्त्रे त्याज्यत्वोक्तेर्मुहूर्त्तमात्रविषयकत्वं न त्वाराधनाविषयकत्वं तथा, क्षीणतिथिवृद्धतिथ्योरपि त्याज्यत्वं मुहूर्त एव बोध्यं न त्वाराधनायामपीति टिप्पनकोक्तप्रथमपञ्चम्या अपि फल्गुतिथितया मुहूर्ते त्याज्यत्वेऽप्याराधनायामत्याज्यत्वमेवेति । प्रत्युताऽऽराधनायां प्रागुपदर्शितया 'वृद्धौ कार्ये'ति वचनानुसारिण्याऽविच्छिनसुविहितपरम्परया तत्र चतुर्थीत्वेनैव प्रामाण्यं न तु पञ्चमीत्वेनेत्यपि सयुक्तिकमेवोपदर्शितमधस्तादिति ।
स्यादेतत् । ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति । एवं लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु चाधिकमासो न गण्यते इति । एवमन्यच्च सर्वाणि शुभकार्याण्यभिवधिते मासे नपुसंक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि । अपरमास्तामन्योऽभिवर्धितः, भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽप्यप्रमाणमेव । यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते तथाऽत्रापीति । इत्यादिभिः कल्पवृत्त्यादिवचनैरपि यथा टिप्पनके भाद्रपदादिवृद्धौ प्रथमभाद्रपदादेप्रमाणत्वं तथा टिप्पनके भाद्रशुक्लपञ्चम्यादिवृद्धौ टिप्पनकोक्तप्रथमपञ्चम्यादेरप्यप्रमाणतैवेति कथं तत्र गुरुवासरे श्रीपर्युषणापर्वाराधनमिति चेत् ।
किमत्र तवाभिप्रेतम् ? किं प्रथमभाद्रपदस्य प्रथमतिथेश्च सर्वथैवाप्रमाणत्वात् तत्र किमपि धर्मक्रियाराधनं नैव कर्त्तव्यम्, किं वा तत्तन्मासप्रतिबद्धं तत्तत्तिथिप्रतिबद्धं च धर्मक्रियाराधनं तत्र न कर्त्तव्यमिति ?
आये-दिनप्रतिबद्धमपि तत्र देवपूजामुनिदानादिरूपं धर्मक्रियाराधनमप्यकर्त्तव्यमेव तवापद्येत । सन्ध्यादिसमयप्रतिबद्धमावश्यकाद्यपि तत्राकर्त्तव्यमेव तवापद्येत । किञ्चैवं प्रथमे भाद्रपदादौ द्वादशपर्व्याराधनं पाक्षिकाद्याराधनं च त्वयापि क्रियत एव । एवं त्वदभ्युपगतायां फल्गुतिथावपि त्वया विंशतिस्थानकरोहिणीयोगोपधानपर्युषणाद्यष्टाहिकाद्याराधनमपि क्रियते कार्यते चेति सर्वमेवाऽप्रमाणमकर्त्तव्यमेव तत्र तवापद्येत । न चैतदिष्टं तवापीति न प्रथमः पक्षो युक्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org