________________
पर्युषणातिथिविनिश्चयः ॥
"एकोनत्रिंशता पूर्णैर्मुहूर्तेश्च द्विषष्टिजैः । द्वात्रिंशता मुहूतांश-रेकैको रजनीपतेः ॥
चतुर्द्धा षष्ठ्यंशरूपो राहुणाऽऽच्छाद्यते लवः ।
मुच्यते व च तदैताव-न्मानाः स्युस्तिथयोऽखिलाः ॥ एवं च - द्वाषष्ठिभक्ताहोरात्र-स्यैकषष्ठ्या लवैर्मिता ।
तिथिरेवं वक्ष्यते यद् तद्युक्तमुपपद्यते ॥ ...... तिथिमानेऽस्मिश्च हते त्रिंशता स्याद्यदोदितैः । मासश्चान्द्र एवमपि त्रिंशत्तिथिमितः खलु ॥'
इति विंशतितमे सर्गे । एवम्- अहोरात्रतिथीनां च विशेषोऽयमुदीरितः ।
भानूत्पन्ना अहोरात्रा-स्तिथयः पुनरिन्दुजाः ॥ उक्तं च- सूरस्स गगणमंडल-विभागनिप्फाइया अहोरत्ता ।
चंदस्स हाणिवुड्डी-कएण निष्फज्जए उ तिही ॥ किञ्च- अहोरात्रो भवेदों-दयादोंदयावधि ।
द्वाषष्टितमभागोना-होरात्रप्रमिता तिथिः ॥ इत्यादिभिर्विशेषैः स्या-दहोरात्रात्पृथक् तिथिः । द्विधात्वं च भवेत्तस्या दिनरायंशकल्पनात् ॥
यद्वदेकोऽप्यहोरात्रः सूर्यजातो द्विधाकृतः ।
दिनरात्रिविभेदेन संज्ञाभेदप्ररूपणात् ॥ तथैव तिथिरेकापि शशिजाता द्विधा कृता। दिनरात्रिविभेदेन संज्ञाभेदप्ररूपणात् ॥
एकैकस्यास्तिथेः काल-मानमेवं प्रकीर्तितम् ।
मुहूर्तानां त्रिंशदेक-न्यूनभागास्तथोपरि ॥ स्युभत्रिंशन्मुहूर्तस्यै-कस्य द्वाषष्ठिकल्पिताः । अस्योत्पत्तिः कथमिति श्रद्धा चेत् श्रूयतां तदा ॥ .
अहोरात्रस्य भागा द्वा-षष्टिभागीकृतस्य हि ।
एकषष्ठिस्तिथेर्मान-मेकैकस्या यदीरितम् ॥ द्वाषष्टिजांशरूपैक-षष्टिस्तत् त्रिंशता हता । अहोरात्रमुहूर्तेः स्यात् त्रिंशाष्टादशशत्यहो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org