________________
१३८
ग्रन्थत्रयी एते चांशा द्वाषष्ट्यंशीकृतसकलतिथिमुहूर्तानाम् ।
सन्तीति द्वाषष्ट्या मुहूर्त्तकरणाय भजनीयाः ॥ (आर्या) ततो मुहूर्ता एकोन-त्रिंशद् द्वात्रिंशदंशकाः । द्वाषष्टिजा मुहूर्तस्या-गतास्तैश्च तिथेर्मितिः ॥ .
कालेन चेयता पञ्च-दशांशश्चतुरंशकः ।
द्वाषष्टयंशी कृतस्येन्दो -हीयते वर्धते तथा ॥ ततश्च- यत्तिथिश्चन्द्रजेत्युक्तं तदप्येवं विनिश्चितम् । इन्दोः पञ्चदशांशस्य हानिवृद्ध्यनुवर्तनात् ॥
युगेऽथावमरात्राणां स्वरूपं किञ्चिदुच्यते । - भवन्ति ते च षड् वर्षे तथा त्रिंशद्युगेऽखिले ॥ . एकैकस्मिन्नहोरात्रे एको द्वाषष्टिकल्पितः । लभ्यऽवमरात्रांश-एकवृद्ध्या यथोत्तरम् ॥
कर्ममासे ततः पूर्णे त्रिंशद् द्वाषष्टिजा लवाः ।
लभ्यन्तेऽवमरात्रस्य तत एवोच्यते बुधैः ॥ विश्लेषे विहिते येऽशा: शेषाः कर्मेन्दुमासयोः । त्रिंशद् द्वाषष्टिजाः कर्म-मासस्यैतेऽवमांशकः ॥ उक्तं च - चंदउडूमासाणं अंसा जे दिस्सए विसेसंमि ।
. ते ओमस्तभागा भवंति मासस्स नायव्वा ॥ कर्ममासद्वये पूर्णे ततः षष्टिदिनात्मके । सम्पूर्णोऽवमरात्रः स्या-देकषष्टितमे दिने ॥ अयं भाव:- द्वाषष्टिरंशाः कल्प्यन्ते-ऽहोरात्रस्यादिमेऽथ च ।
तत्रैकषष्टिभागात्मा सम्पूर्णा प्रथमा तिथिः । एको द्वाषष्टिभागो यो-ऽहोरात्रस्यावशिष्यते । एकांशेन द्वितीयापि तिथिस्तत्र समाविशत् ॥
एको द्वाषष्टिभागोऽस्या अतीतः प्रथमे दिने ।
ततः षष्ट्यंशात्मिकेय-महोरात्रे द्वितीयके ॥ द्वाषष्ठ्यंशद्वये तस्य शेषेऽसौ पूर्णतां गता । द्वाभ्यां भागाभ्यां प्रविष्टा तृतीयाऽस्मिस्ततस्तिथिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org