Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१३५
पर्युषणातिथिविनिश्चयः ॥ __ तथा सति हि 'क्षये पूर्वे'त्यत्र 'क्षयेऽनौदयिकी कार्ये'त्येवं मुख्यशब्दघटितस्यैव प्रतिपादनस्य युक्तत्वं स्यात् । लक्षणायां विशेषाभावात् ।
किञ्च, क्षीणतिथौ यथा पूर्वतिथिविद्धत्वं तथोत्तरतिथिविद्धत्वमपि वर्तत एव । तत्र पूर्वतिथिविद्धत्वेनैव प्रामाण्यं न तूत्तरतिथिविद्धत्वेनेत्यत्राप्युत्तरविद्धत्वात् पूर्वविद्धत्वे विशेषाभावेन बीजाभावात् यत्त्वितिपक्षस्यायुक्तत्वमेव, व्यवच्छेदफलाभावे व्यवच्छेदस्य वैयर्थ्यात् ।
न च क्षीणतिथावुत्तरतिथिविद्धत्वमेव नास्तीति वाच्यम् ।
सिद्धान्तानुसारेण तत्रोत्तरतिथिविद्धत्वाभावेऽपि टिप्पनकानुसारेण तत्रोत्तरतिथिविद्धत्वावश्यंभावात् । तत्र क्षयदिनस्य तिथित्रयस्पर्शित्वनियमात् ।
'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' तिवचनस्यापि टिप्पनकानुसारितिथिविषयकत्वमेव । अन्यथा 'वृद्धौ कार्या तथोत्तरे' त्युक्तिरेवाऽसङ्गता स्यात् । सिद्धान्तानुसारेण तिथेरहोरात्रप्रमाणन्यूनप्रमाणतया तिथेः क्षयेऽपि तिथिवृद्धेरभावात् ।
तिथि-तिथिप्रमाण-तिथिपातस्वरूपं चैवं सिद्धान्तानुसारि, श्रीलोकप्रकाशे'साधारणासाधारण-मण्डलान्येवमूचिरे । सम्प्रतीन्दोवृद्धिहानि-प्रतिभासः प्ररूप्यते ॥
अवस्थितस्वभावं हि स्वरूपेणेन्दुमण्डलम् ।
सदापि हानिर्वृद्धिर्वा येक्ष्यते सा न तात्त्विकी ॥ केवलं या शुक्लपक्षे वृद्धिानिस्तथाऽपरे । राहुविमानावरण-योगात् सा प्रतिभासते ॥ तथा हि- ध्रुवराहुः पर्वराहु-रेवं राहुविधा भवेत् ।
ध्रुवराहोस्तत्र कृष्ण-तमं विमानमीरितम् ॥ तच्च चन्द्रविमानस्य प्रतिष्ठितमधस्तले । चतुरङ्गलमप्राप्तं चारं चरति सर्वदा ॥
तेनापावृत्त्य चाकृत्त्य चरत्यधः शनैः शनैः । .
वृद्धिहानिप्रतिभासः पोस्फुरीतीन्दुमण्डले ॥' । तथोक्तम्-"चंदस्स नेव हाणी न वि वुड्डी वा अवढिओ चंदो ।
सुक्किलभावस्स पुणो दीसइ वुड्डी य हाणी य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176