Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ पर्युषणातिथिविनिश्चयः ।। ११५ चतुर्दशी वर्तते, अद्य चतुर्दश्यां पौषधोऽस्माकमित्याबालगोपालं प्रतीतस्य व्यवहारस्यानुपपत्तेश्च । किञ्च, टिप्पनकोक्तप्रथमपूर्णिमायां 'वृद्धौ कार्या तथोत्तरे'ति वचनेन पूर्णिमात्वेन प्रामाण्यनिवृत्तौ तव्याप्यं तद्रूपेणौदयिकत्वमपि निवर्त्तत एवेत्यवश्यमभ्युपेयम् । अत एव च हीरप्रश्नोत्तरे 'औदयिक्येव' इत्यत्रौदयिकीशब्देन टिप्पनकोक्ता उत्तरैव पूर्णिमाऽमावास्या च व्यपदिष्टा, न तु पूर्वतनी । एवकारेणैव च तद्व्यवच्छेदादिति । ननु टिप्पनकोक्तप्रथमपूर्णिमादिने पूर्णिमायाः पूर्णिमात्वेन प्रामाण्यनिवृत्तावपि तन्निवृत्तौ च तद्रूपेणौदयिकत्वनिवृत्तावपि च टिप्पनके तद्भोगसत्त्वेनैव पूर्णिमात्वेन तत्र व्यपदेश इति चेत् । न। तद्भोगस्य तद्व्यपदेशं प्रत्यप्रयोजकत्वात् । अन्यथा प्रतिपद्दिनेऽपि टिप्पनके द्वितीयाया भोगसत्त्वेन द्वितीयात्वेन व्यपदेशापत्तेः । न चैतदिष्टं तवापि । प्रतिपत्त्वेनैव तत्र दिने प्रामाण्यस्य व्यपदेशस्य च तवापि सम्मतत्वात् । तस्माद् यस्मिन् दिने यत्तिथित्वेन प्रामाण्यं तस्मिन् दिने तत्तिथित्वेनैव व्यपदेशः । यस्मिन् दिने च यत्तिथित्वेन प्रामाण्याभावस्तस्मिन् दिने तत्तिथित्वेन व्यपदेशस्याप्यभाव एवेति बोध्यम् । नन्वेवं सति टिप्पनकोक्तप्रथमपूर्णिमादिने कितिथित्वेन प्रामाण्यं किंतिथित्वेन च व्यपदेश इति चेत् । प्रागेव दत्तमुत्तरमावर्तनीयं विभावनीयं च । तथा च 'वृद्धौ कार्ये'ति वचनानुसारिण्योक्तप्रक्रिययाऽनन्तरोपदर्शित एव पन्थाः प्रमाणम् । एवं च चतुर्दशीपूर्णिमयोः चतुर्दश्यमावास्ययोश्च पर्वतिथ्योर्न सम्बद्धत्वानुपपत्तिः । न वा तनिमित्तकषष्ठाभिग्रहवतोऽपि षष्ठतपःकरणानुपपत्तिः । न वाऽऽराधनायां नियतक्रमव्यवस्थाविप्लवापत्तिश्च । इत्थमेव च प्रतिमाभृतः श्रावकस्य श्राविकाया वा चतुर्थीप्रतिमात आरभ्य चतुष्पर्वीपौषधभृतो मुख्यवृत्त्या पाक्षिकपूर्णिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते इति षष्ठज्ञाराधना भवति । - उक्तं च तद्विषयकं प्रश्नोत्तरं सेनप्रेश्ने । तथा हि-'प्रतिमाधर श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पर्वीपौषधं करोति । तदा पाक्षिकपूर्णिमा-षष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति पूर्णिमायां चैकाशनकं कृत्वा पौषधं करोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176