Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 130
________________ पर्युषणातिथिविनिश्चयः॥ १२१ किञ्चैवं पाक्षिकचतुर्मासिकसांवत्सरिकाराधनायास्तु सर्वथैव त्वन्मते विलोपः । शास्त्रे पाक्षिकचतुर्मासिकयोश्चतुर्दश्यामेव कर्तव्यतोपदेशात् । सांवत्सरिकस्य च भाद्रशुक्लचतुर्थ्यामेव कर्त्तव्यतोपदेशात् । चतुर्थीचतुर्दश्योश्च रिक्ततिथित्वेन ज्योतिःशास्त्रे त्याज्यत्वोक्तेराराधनायामपि त्याज्यत्वाभ्युपगमात् । तस्माद् रिक्तादितिथीनां यथा तत्र तत्र ज्योतिःशास्त्रे त्याज्यत्वोक्तेर्मुहूर्त्तमात्रविषयकत्वं न त्वाराधनाविषयकत्वं तथा, क्षीणतिथिवृद्धतिथ्योरपि त्याज्यत्वं मुहूर्त एव बोध्यं न त्वाराधनायामपीति टिप्पनकोक्तप्रथमपञ्चम्या अपि फल्गुतिथितया मुहूर्ते त्याज्यत्वेऽप्याराधनायामत्याज्यत्वमेवेति । प्रत्युताऽऽराधनायां प्रागुपदर्शितया 'वृद्धौ कार्ये'ति वचनानुसारिण्याऽविच्छिनसुविहितपरम्परया तत्र चतुर्थीत्वेनैव प्रामाण्यं न तु पञ्चमीत्वेनेत्यपि सयुक्तिकमेवोपदर्शितमधस्तादिति । स्यादेतत् । ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति । एवं लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु चाधिकमासो न गण्यते इति । एवमन्यच्च सर्वाणि शुभकार्याण्यभिवधिते मासे नपुसंक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि । अपरमास्तामन्योऽभिवर्धितः, भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽप्यप्रमाणमेव । यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते तथाऽत्रापीति । इत्यादिभिः कल्पवृत्त्यादिवचनैरपि यथा टिप्पनके भाद्रपदादिवृद्धौ प्रथमभाद्रपदादेप्रमाणत्वं तथा टिप्पनके भाद्रशुक्लपञ्चम्यादिवृद्धौ टिप्पनकोक्तप्रथमपञ्चम्यादेरप्यप्रमाणतैवेति कथं तत्र गुरुवासरे श्रीपर्युषणापर्वाराधनमिति चेत् । किमत्र तवाभिप्रेतम् ? किं प्रथमभाद्रपदस्य प्रथमतिथेश्च सर्वथैवाप्रमाणत्वात् तत्र किमपि धर्मक्रियाराधनं नैव कर्त्तव्यम्, किं वा तत्तन्मासप्रतिबद्धं तत्तत्तिथिप्रतिबद्धं च धर्मक्रियाराधनं तत्र न कर्त्तव्यमिति ? आये-दिनप्रतिबद्धमपि तत्र देवपूजामुनिदानादिरूपं धर्मक्रियाराधनमप्यकर्त्तव्यमेव तवापद्येत । सन्ध्यादिसमयप्रतिबद्धमावश्यकाद्यपि तत्राकर्त्तव्यमेव तवापद्येत । किञ्चैवं प्रथमे भाद्रपदादौ द्वादशपर्व्याराधनं पाक्षिकाद्याराधनं च त्वयापि क्रियत एव । एवं त्वदभ्युपगतायां फल्गुतिथावपि त्वया विंशतिस्थानकरोहिणीयोगोपधानपर्युषणाद्यष्टाहिकाद्याराधनमपि क्रियते कार्यते चेति सर्वमेवाऽप्रमाणमकर्त्तव्यमेव तत्र तवापद्येत । न चैतदिष्टं तवापीति न प्रथमः पक्षो युक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176