Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 133
________________ १२४ ग्रन्थत्रयी अत्र क्षयपदस्य सनिरूपकत्वात् तिथिपदसमभिव्याहाराच्च तिथिक्षयपरत्वमेव । तत्रापि पर्वाराधनाप्रकरण एव तत्र तत्र शास्त्रे एतद्वचनस्योपन्यस्तत्वेन मुख्यत्वेन पर्वतिथिविषयकत्वमेवेति । क्षये-पर्वतिथिक्षये, पूर्वा तिथि:-प्रथमोपस्थितत्वेनाऽव्यवहितपूर्वा तिथिः, 'सर्वं वाक्यं सावधारण'मिति नियमात् पूर्वा एव तिथिः, नोत्तरा इत्यपि बोध्यम् । कार्या-तत्तिथित्वेन प्रमाणीकार्या इत्यर्थः । यद्यपि प्रायः सर्वत्र कार्येत्येव पाठः प्रमाणतयोपलभ्यते, तथापि क्वचिदभ्युपगतस्य ग्राह्येति पाठस्योपादेयत्वाग्रहेऽपि नैवार्थभेदोऽत्र कश्चित् । तथा च यत्र ख्यादिदिने यस्यां पर्वतिथेः क्षयः स्यात्तत्र ख्यादिदिने आराधनायां तत्पूर्वतिथिरेव तत्पर्वतिथित्वेन प्रमाणीकार्या इति भावः । __ यथा टिप्पनके सोमवासरे चतुर्दश्याः क्षयो वर्तते, इति सोमवासरे औदयिक्याश्चतुर्दश्या अलाभेन तत्पूर्वाया तद्दिनव्यापित्वेनाभिमतौदयिकी त्रयोदशीतिथि: सैवाराधनायां चतुर्दशीत्वेन प्रमाणीकार्या । न तु टिप्पनके तद्दिनतिन्यपि तदुत्तरा पूर्णिमा तिथिः चतुर्दशीत्वेन प्रमाणीकार्या । पूर्णिमायाः तत्र दिने टिप्पनके वर्तमानत्वेऽपि तत्र दिने तस्या औदयिकत्वाभावेन चतुर्दशीतिथित्वेन प्रामाण्ये तत्रौदयिकत्वलाभाभावात् । तथा च सैव तत्र दिने औदयिकी तद्दिनव्यापिनी त्रयोदशी चतुर्दशीत्वेन प्रमाणीकार्या, सैव च चतुर्दशीत्वेनाऽऽराध्या, सैव च तद्दिनव्यापितया सम्पूर्णा चतुर्दशीत्वेन व्यवपदेश्येति सिद्धम् । इत्थं च टिप्पनके पर्वतिथिक्षयेऽपि प्रागापादिता पर्वतिथ्यगाधनाया अव्यवस्थापत्तिविलोपापत्तिश्च दूरोत्सारितैव । नापि 'उदयंमि जा तिही सा पमाणं' इति नियमबाधः । औदयिकत्रयोदश्या एव चतुर्दशीत्वेन कार्यत्वोपदेशात्, औदयिकत्वस्यापि तत्र लाभात् । अत एव नापि 'इयराए कीरमाणीए आणाभंगणवत्था मिच्छत्तविराहणं पावे' इति आज्ञाभङ्गादिप्रत्यवायप्रसङ्गोऽपि । अनौदयिक्यां तिथौ प्रमाणीक्रियमाणायामेव तदापत्तेः । औदयिक्या एव त्रयोदश्याः चतुर्दशीत्वेन प्रमाणीकरणात् तत्रौदयिकत्वस्याऽनपायाच्च। नन्वेवमपि टिप्पनके चतुर्दशीक्षये सोमवासरे औदयिक्यास्त्रयोदश्या एव सत्त्वेन तत्र चतुर्दशीत्वाभावेन तत्र चतुर्दशीत्वज्ञानमारोपरूपं भविष्यति । अतस्मिस्तदध्यवसाय: समारोपः । यथा शुक्तिकायामिदं रजतमिति हि तल्लक्षणात् । न च तत्र दिने टिप्पनके चतुर्दश्या औदयिकत्वाभावेऽपि चतुर्दश्या भोगसत्त्वेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176