Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ पर्युषणातिथिविनिश्चयः ॥ स्यात् । सङ्क्रान्तितद्भावयोरेव ज्योतिःशास्त्रे मासनिष्ठप्रामाण्याप्रामाण्यप्रयोजकत्वादिति सर्वं सुस्थमित्यलम् । तथा च विवादापत्रे गुरुवासरे 'वृद्धो कार्ये 'ति वचनानुसारेणोक्तयुक्त्याऽऽराधनायां पञ्चमीदिनत्वेन प्रामाण्यनिवृत्त्या चतुर्थीदिनत्वेनैव प्रामाण्यस्य सिद्धौ प्रागुक्ते तवानुमाने तोरसिद्धिः सूपपन्नैवेति हीनबलेनाप्रयोजकेन तेन हेतुना नास्माकं हेतोः सत्प्रतिपक्षत्वमिति । इत्थमेव च व्यभिचारविरोधासिद्धिबाधाऽपि असम्भावितैवात्र । १२३ तथा चानुमानादपि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यौदयिकरूपटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिने आराधनायां चतुर्थीदिनात्मकतयैव सिद्धे विवादापत्रे गुरुवासरे, गतवर्षी रविवासरे चैव श्रीपर्युषणापर्वकर्त्तव्यता निराबाधा सिद्धेति । अथ पूर्वम् - 'उदयंमि जा तिही सा पमाणमियराए कीरमाणीए । आणाभंगणवत्था-मिच्छत्तविराहणं पावे ।" इत्याद्युक्तम् । अथ यदा टिप्पनके चतुर्दश्यादिपर्वतिथेः क्षयः स्यात् तदा टिप्पनके चतुर्दश्या औदयिकत्वमेव नास्ति । यथाऽऽश्विनशुक्लपक्षे सोमवासरे साधिकाः पञ्च घटिका यावत् त्रयोदशी, तदनु साधिकाश्चतुःपञ्चाशद् घटिका यावत् चतुर्दशी, तदनु कतिपयपलानि यावत् पञ्चदशी । भौमवासरे च साधिका द्वापञ्चाशद् घटिका यावत् पञ्चदशी । अत्र सोमवासरे त्रयोदश्या एवौदयिकत्वं, भौमवासरे च पूर्णिमाया एवौदयिकत्वं चतुर्दश्यास्तु न कुत्रापि दिने औदयिकत्वं वर्त्तते । किन्तु सोमवासर एवान्तर्हितत्वमत एव तस्या अवमाख्या संज्ञा भवति । इयमेव चतुर्दशी क्षीणेत्युच्यते । तिथौ क्षीणत्वं हि सूर्योदयास्पर्शित्वम् । तथा च तत्र चतुर्दशी चतुर्दशीत्वेन कस्मिन् दिने प्रमाणीकार्या ? कस्मिन् दिने च चतुर्दशीपर्वाराधना कार्या ? सोमवासरे त्रयोदश्या एवौदयिकत्वात्, भौमवासरे च पूर्णिमाया एवौदयिकत्वात्, औदयिक्या एव च तिथेः तत्र दिने तत्तिथित्वेन प्रामाण्यात् । किं वा चतुर्दश्याः क्षीणत्वेन चतुर्दश्येवौदयिकी नास्तीति कुत्र तदाराधना स्यादिति तदाराधनमपि क्षीणमेव गणनीयमिति ? | एवं सर्वत्रक्षीणतिथिस्थले तदाराधनाया अव्यवस्थितत्वं विलोपो वा स्यादिति चेत् । न । आराधनायां 'क्षये पूर्वा तिथिः कार्या इति श्रीउमास्वातिप्रघोषात्मकविशेषवचनस्यैव शास्त्रानुसारिशास्त्राबाधितसुविहितपरम्परागतस्य सर्वसम्मतस्य तत्र व्यवस्थापकत्वात् पर्वाराधनविलोपस्यानिष्टत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176