Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 134
________________ पर्युषणातिथिविनिश्चयः॥ १२५ तत्र दिने चतुर्दशीज्ञानं नारोपरूपम्, आरोपलक्षणस्याभावात् । न हि घटपटवति भूतले घटपटौ' स्तः इति ज्ञानम्, कनकरत्नमयकुण्डले कनकरत्नज्ञानं वारोपरूपं भवितुमर्हतीति वाच्यम् । तत्र दिने तद्भोगसत्त्वेऽपि तिथिप्रामाण्ये तद्भोगस्याऽप्रयोजकत्वात् । 'उदयंमि जा तिही सा पमाणं' इत्यादिना तत्र सूर्योदयस्पर्शित्वरूपौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वेनोक्तत्वात् । यत्र दिने टिप्पनके यस्यास्तिर्भोगः स्यात्तत्र दिने तस्यास्तिथे: तत्तिथित्वेनाराधनायां प्रामाण्यमित्येवंरीत्या तिथिप्रामाण्ये भोगस्यैव प्रयोजकत्वे 'उदयंमि जा तिही सा पमाणं' इत्यादिना विरोधापत्तिः । तत्रौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वस्योक्तत्वात् । 'उदयंमि' इत्यादेवैयर्थ्यापत्तेश्च । टिप्पनकवचनादेव प्रागुक्तार्थलाभात् । किञ्चैवं तत्तत्तिर्भोगस्यापि यथा तत्र दिने व्यादिलक्षणे सत्त्वं तथा तत्पूर्वदिनेऽपि तद्भोगस्य सत्त्वादतिप्रसङ्गापत्तिः । तिथिक्षयदिने च तिथित्रयस्य भोगसत्त्वेन तत्रैकस्मिन्नेव दिने तिथित्रयस्यापि तत्तत्तिथित्वेनाराधनायां प्रामाण्यापत्तिश्च दुरुद्धरा स्यात् । न च क्षीणतिथ्यतिरिक्ततिथिस्थले आराधनायां प्रामाण्ये 'उदयंमि' इत्यादिनौदयिकत्वस्य प्रयोजकत्वेऽपि क्षीणतिथौ प्रामाण्ये तद्भोगस्यैव प्रयोजकत्वमिति न प्रागुक्तदोषापत्तिर्न वारोपज्ञानापत्तिरिति वाच्यम् । तत्रार्थे प्रमाणाभावात् । 'क्षये पूर्वा तिथिः कार्या' इत्यस्य वैयर्थ्यापत्तेश्च । प्रत्युत तथा सति 'क्षये पूर्वा तिथिः कार्या' इत्यत्र स्थाने-'क्षये भोगदिने कार्या'-यद्वा- 'क्षये भोगवती कार्या'- इत्येवंरूपस्यैव वचनसन्दर्भस्य युक्तत्वेन कर्त्तव्यत्वं स्यात् । न चैवमस्तीति न क्षयस्थलेऽपि भोगस्य प्रामाण्यप्रयोजकत्वं युक्तियुक्तं प्रतिभातीति । तथा च प्रागुक्तसोमवासरे औदयिक्यां त्रयोदश्यां चतुर्दशीत्वाभावेन तत्र चतुर्दशीत्वज्ञानमारोपरूपमेव। प्रागुक्तारोपलक्षणस्य तत्र सुघटत्वात् ।। अथ तिथिसामान्ये समाप्तिमत्त्वस्यैव प्रामाण्यप्रयोजकताऽस्तु । तथा हि यस्मिन्नेवादित्यवारलक्षणे दिने या तिथिः समाप्यते स एवादित्यवारलक्षणो दिवस आराधनायां तत्तिथित्वेन प्रमाणतया स्वीकार्यः । यथाऽऽश्विनशुक्लपक्षे आदित्यदिने साधिके द्वे घटिके यावद् द्वादशी, तदनु च त्रयोदशीति आदित्यदिने द्वादश्यां समाप्तिमत्त्वेनादित्यदिनो द्वादशीतिथित्वेनाराधनायां प्रमाणतया स्वीकार्यः, न तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176