Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ १२० ग्रन्थत्रयी अथ तिथिवृद्धिलक्षणम् । यत्र या तिथिवारद्वयान्तं स्पृष्ट्वा तृतीयवारस्याऽऽदिमं कञ्चिद् भागं स्पृशति तत्र सा तिथिर्वृद्धिसंज्ञा । त्रिद्युस्पृगित्यपि चेत्याहुः । यथा तृतीया रवौ अष्टपञ्चाशद्धटिकाः ५८ । ततश्चतुर्थी सोमे षष्टिघटिका: ६०, ततो भौमवासरे चतुर्थी घटिकात्रयं ३, अतश्चतुर्थी वास्त्रयसम्बद्धा तिथिर्वृद्धिसंज्ञा । यदाह वसिष्ठः वसिष्ठः ' स्युस्तिस्रस्तिथयो वारे एकस्मिन्नवमा तिथिः । तिथिर्वास्त्रयं चैका त्रिद्युस्पृग् द्वेऽतिनिन्दिते ॥ कृतं यन्मङ्गलं तत्र त्रिद्युस्पृगवमे दिने । भस्मीभवति तत्क्षिप्रमग्नौ सम्यग्यथेन्धनम् ॥' इति । अथ शुभकृत्यावश्यकत्वे तिथिक्षय-तिथिवृद्ध्योः परिहारमाह दोषापवादाध्याये 'अवमाख्यं तिथेर्दोषं केन्द्रगो देवपूजितः । हन्ति यद्वत्पापचयं व्रतं द्वैवार्षिकं यथा ॥ त्रिस्पृगाह्वयं दोषं सौम्यः केन्द्रगतः सदा । हन्ति यद्वत्पापचय - मशून्यशयनव्रतम् ॥” इति ।" तथा च यत्र दिनेऽवमतिथि: स्यात्तत्र दिने तस्यास्ति थेराराधनाप्यकर्त्तव्यैव स्यादिति, चतुर्दशीक्षये तत्र दिने क्षयदिनत्वात् पाक्षिकचतुर्मासिकाराधनाया अकर्त्तव्यत्वेन तद्विलोपः स्यात् । एवं भाद्रशुक्लचतुर्थीक्षये तत्र दिने क्षयदिनत्वात् पर्युषणाराधनाऽप्यकर्त्तव्या स्यादिति तद्विलोपोऽपि । एवमष्टम्यादिक्षयेऽपि तत्तदाराधनादिविलोपापत्तिः । किञ्च, ज्योतिःशास्त्रे तु - रिक्ता षष्ठ्यष्टमीद्वादश्यमावास्याः शुभे त्यजेत् । स्वीकुर्यान्नवमीं क्वापि न प्रवेशप्रवासयोः ॥ दग्धामर्केण सङ्क्रान्तौ राश्योरोजयुजोस्त्यजेत् । भूत ५- दृग् २-युक्तयोः शेषां शोधिते भगणे १२ तिथिम् ॥ त्रिशश्चतुर्णामपि मेषसिंह- धन्वादिकानां क्रमतश्चतस्रः । पूर्णाश्चतुष्कत्रितयश्च तिस्र - स्त्याज्या तिथिः क्रूरयुतस्य राशेः ॥' इत्यादिना रिक्तादितिथीनामपि त्याज्यत्वोक्तेराराधनायामपि तत्त्याज्यत्वे तत्र तत्र दिने तत्तत्तिथिनिमित्तकाराधनाया अपि विलोपापत्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176