Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ ११७ पर्युषणातिथिविनिश्चयः ॥ वेदितव्यम् । तथा सति उत्तरपूणिमायां प्रथमप्रतिपत्त्वस्य स्वीकार्यत्वेन 'वृद्धौ कार्येति वचनज्ञापितस्य तत्रैव पूर्णिमात्वेन प्रामाण्यस्यास्वीकारात् तद्वचनाज्ञाभङ्गापत्तेः । उक्तयुक्त्या 'वृद्धौ कार्या तथोत्तरे' तिवचनेन पूर्णिमाभिवृद्धौ त्रयोदश्या एव वृद्धेः प्राप्यमाणत्वाच्च न तु प्रतिपदः । अत एव च चतुर्मासकपूर्णिमावृद्धौ त्रयोदशीवृद्धिः कार्या शेषपूर्णिमावृद्धौ च प्रतिपद्वृद्धिः कार्येत्यपि निरस्तम् । अर्धजरतीयत्वप्रसङ्गात् । तत्रापि प्रमाणाभावात्, सर्वास्वपि पूर्णिमामावास्यासु पर्वतिथित्वस्य साधितत्वाच्चेति । नन्वस्त्वेतत्सर्वमपि प्रागुपदर्शितं निराबाधम् । परं 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे तिवचनस्य टिप्पनके पर्वतिथिक्षये पर्वतिथ्याराधनाया विलोपो मा भूत टिप्पनके पर्वतिथिवृद्धौ च पर्वतिथ्याराधनाया अव्यवस्थाऽनियतता वा मा भूदित्येवंरूपप्रयोजनकत्वमेव । अत एव च तत्र तत्र शास्त्रे प्रायः पर्वतिथ्याराधनोपदेशप्रकरण एव तद्वचनस्योपन्यासो दृश्यते नान्यत्रेति तद्वचनस्य बाहुल्येन पर्वतिथिविषयकत्वमेव सर्वैरभ्युपगम्यते । भाद्रशुक्लपञ्चम्याश्च कल्पकिरणावल्यां मतमातृकल्पतयोक्तत्वेन पर्वतिथित्वमेव नास्तीति तद्विषयकत्वमेव 'क्षये पूर्वे' तिवचनस्य न स्यादिति कथं तद्वचनबलेन टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावपि टिप्पनकोक्तप्रथमपञ्चमीदिने पञ्चमीत्वेन प्रामाण्यनिवृत्तिः । कथं वा तदन्यथानुपपत्त्या तत्रौदयिक चतुर्थीत्वेन प्रामाण्यव्यवस्थापनमिति चेत् । न । अभिप्रायापरिज्ञानात् । किरणावल्यां मृतमातृकल्पत्वोक्तेः पञ्चम्याः पर्युषणापर्वतयाऽनुपादेयताभिप्रायकत्वात्, हानमुद्दिश्य निन्दावाक्यस्य प्रयुज्यमानत्वस्योक्तत्वाच्च । तथा च तत्र सांवत्सरिकपर्वरूपपर्वतिथित्वापेक्षया तस्या मृतमातृकल्पतयोक्तत्वेऽपि पञ्चमीरूपपर्वतिथित्वापेक्षया मृतमातृकल्पत्वस्य कुत्राप्यनुक्तत्वेन पञ्चमीरूपपर्वतिथित्वं तु तस्या निरपायमेव । कथमन्यथा-'किञ्च पर्युषणाचतुर्थ्याः क्षये पञ्चमीस्वीकारप्रसङ्गेन त्वं व्याकुलो भविष्यसी'ति किरणावलीकारस्यैव वचनं सङ्गतं स्यात् ?। पर्वतिथितया तस्या आराध्यतायां सत्यामेव तदुक्तेस्तत्र सङ्गतत्वादित्यपि त्वया रहसि विचार्यम् । किञ्च, पञ्चम्यां पर्वतिथित्वं न पर्युषणापर्वाधीनम् । तथा च तत्र पर्युषणापर्वकर्त्तव्यतानिवृत्तावपि न पर्वतिथित्वनिवृत्तिः । सर्वस्या अपि पञ्चम्यास्तिथेनित्यपर्वतिथित्वात् । कल्याणकतिथीनामिव तस्या नैमित्तिकपर्वतिथित्वस्याप्यभावादिति भाद्रशुक्लपञ्चम्या अपि पर्वतिथित्वमव्याहतमेव । अत एव च येन शुक्लपञ्चमी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176