________________
११७
पर्युषणातिथिविनिश्चयः ॥ वेदितव्यम् । तथा सति उत्तरपूणिमायां प्रथमप्रतिपत्त्वस्य स्वीकार्यत्वेन 'वृद्धौ कार्येति वचनज्ञापितस्य तत्रैव पूर्णिमात्वेन प्रामाण्यस्यास्वीकारात् तद्वचनाज्ञाभङ्गापत्तेः । उक्तयुक्त्या 'वृद्धौ कार्या तथोत्तरे' तिवचनेन पूर्णिमाभिवृद्धौ त्रयोदश्या एव वृद्धेः प्राप्यमाणत्वाच्च न तु प्रतिपदः । अत एव च चतुर्मासकपूर्णिमावृद्धौ त्रयोदशीवृद्धिः कार्या शेषपूर्णिमावृद्धौ च प्रतिपद्वृद्धिः कार्येत्यपि निरस्तम् । अर्धजरतीयत्वप्रसङ्गात् । तत्रापि प्रमाणाभावात्, सर्वास्वपि पूर्णिमामावास्यासु पर्वतिथित्वस्य साधितत्वाच्चेति ।
नन्वस्त्वेतत्सर्वमपि प्रागुपदर्शितं निराबाधम् । परं 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे तिवचनस्य टिप्पनके पर्वतिथिक्षये पर्वतिथ्याराधनाया विलोपो मा भूत टिप्पनके पर्वतिथिवृद्धौ च पर्वतिथ्याराधनाया अव्यवस्थाऽनियतता वा मा भूदित्येवंरूपप्रयोजनकत्वमेव । अत एव च तत्र तत्र शास्त्रे प्रायः पर्वतिथ्याराधनोपदेशप्रकरण एव तद्वचनस्योपन्यासो दृश्यते नान्यत्रेति तद्वचनस्य बाहुल्येन पर्वतिथिविषयकत्वमेव सर्वैरभ्युपगम्यते । भाद्रशुक्लपञ्चम्याश्च कल्पकिरणावल्यां मतमातृकल्पतयोक्तत्वेन पर्वतिथित्वमेव नास्तीति तद्विषयकत्वमेव 'क्षये पूर्वे' तिवचनस्य न स्यादिति कथं तद्वचनबलेन टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावपि टिप्पनकोक्तप्रथमपञ्चमीदिने पञ्चमीत्वेन प्रामाण्यनिवृत्तिः । कथं वा तदन्यथानुपपत्त्या तत्रौदयिक चतुर्थीत्वेन प्रामाण्यव्यवस्थापनमिति चेत् ।
न । अभिप्रायापरिज्ञानात् । किरणावल्यां मृतमातृकल्पत्वोक्तेः पञ्चम्याः पर्युषणापर्वतयाऽनुपादेयताभिप्रायकत्वात्, हानमुद्दिश्य निन्दावाक्यस्य प्रयुज्यमानत्वस्योक्तत्वाच्च । तथा च तत्र सांवत्सरिकपर्वरूपपर्वतिथित्वापेक्षया तस्या मृतमातृकल्पतयोक्तत्वेऽपि पञ्चमीरूपपर्वतिथित्वापेक्षया मृतमातृकल्पत्वस्य कुत्राप्यनुक्तत्वेन पञ्चमीरूपपर्वतिथित्वं तु तस्या निरपायमेव । कथमन्यथा-'किञ्च पर्युषणाचतुर्थ्याः क्षये पञ्चमीस्वीकारप्रसङ्गेन त्वं व्याकुलो भविष्यसी'ति किरणावलीकारस्यैव वचनं सङ्गतं स्यात् ?। पर्वतिथितया तस्या आराध्यतायां सत्यामेव तदुक्तेस्तत्र सङ्गतत्वादित्यपि त्वया रहसि विचार्यम् ।
किञ्च, पञ्चम्यां पर्वतिथित्वं न पर्युषणापर्वाधीनम् । तथा च तत्र पर्युषणापर्वकर्त्तव्यतानिवृत्तावपि न पर्वतिथित्वनिवृत्तिः । सर्वस्या अपि पञ्चम्यास्तिथेनित्यपर्वतिथित्वात् । कल्याणकतिथीनामिव तस्या नैमित्तिकपर्वतिथित्वस्याप्यभावादिति भाद्रशुक्लपञ्चम्या अपि पर्वतिथित्वमव्याहतमेव । अत एव च येन शुक्लपञ्चमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org