________________
११६
ग्रन्थत्रयी
तच्छ्रुध्यति न वा ? इति प्रश्नः । अत्रोत्तरम् - प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पवपौषधं करोति । तदा मुख्यवृत्त्या पाक्षिकपूर्णिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते । कदाचित्त्व यदि सर्वथा शक्तिर्न भवति तदा पूर्णिमायामाचामाम्लं निर्विकृतिकं वा क्रियते । एवंविधाक्षराणि सामाचारीग्रन्थे सन्ति । परमेकाशनकं शास्त्रे दृष्टं नास्तीति' ।
एवं तत्रैव तद्विषयकं प्रश्नोत्तरान्तरमपि । तथा हि- 'श्रावकः श्राविका वा चतुर्थी पौषधप्रतिमां वहते । तस्य सामाचार्यनुसारेण चतुर्विधाहारपौषधः कर्त्तव्यः कथितोऽस्ति । तथा समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारः सम्भवति । तस्मात् त्रिविधाहारपौषधं विधाय चतुर्थी प्रतिमां वहते किं न वा ? इति प्रश्नः । अत्रोत्तरम् - प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पवदिने परिपूर्णश्चतुष्प्रकारपौषधः कथितोऽस्ति । तदनुसारेणाष्टप्रहरपौषधश्चतुर्विधाहारोपवासः कर्त्तव्यो युज्यते । परं सामाचार्यनुसारेणैतावान् विशेषो ज्ञायते यत्-पक्षिकायां षष्ठकरणशक्तिर्न भवति तदा पूर्णिमायाममावास्यायां च त्रिविधाहारोपवासस्तथाऽऽचामाम्लशक्त्यभावे निर्विकृतिकमपि कर्त्तव्यम् । तत्र प्रथमोपवासस्तु शास्त्रानुसारेण चतुर्विधाहार एव कर्त्तव्य इति ज्ञायते । समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न ज्ञायते इति ।' पाक्षिकपूर्णिमयो: पाक्षिकामावास्ययोश्चासम्बद्धत्वे च प्रतिमाभृतो निरन्तरोपवासद्वयात्मकषष्ठतपः करणाज्ञाराधनानुपपत्तेस्तद्विलोप एव त्वन्मते प्रसज्येतेति ।
एवं चैतद्विहितषष्ठाज्ञाराधनाया अन्यथानुपपत्तेरपि चतुर्दशीपूर्णिमयोश्चतुर्दश्यमावास्ययोश्चानन्तर्येण सार्वदिकं सम्बद्धत्वमेव स्वीकार्यम् । तदन्यथानुपपत्त्या च टिप्पनके पूर्णिमाया अमावास्यायाश्च वृद्धौ 'वृद्धौ कार्या तथोत्तरे तिवचनानुसारेणोक्तप्रक्रियया त्रयोदशीवृद्धिरेव प्रमाणतया सिध्यतीति ।
इत्थमेव च श्रीकालिकाचार्यभगवतोऽनु श्रीपर्युषणापर्वण आराध्यरूपौदयिकभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनकर्त्तव्यतावत् श्रीचतुर्मासीपर्वणोऽप्याराध्यरूपौदयिकपूर्णिमादिनाव्यवहितपूर्वदिनकर्त्तव्यतापि निराबाधं निर्वाहिता भवतीत्यपि भावनीयम् ।
तथा च टिप्पनके पर्वतिथिवृद्धावाराधनायां सर्वत्रापि 'वृद्धौ कार्ये 'ति वचनानुसारेण प्रागुपदर्शित एव पन्थाः प्रमाणमिति ।
एतेन - ये टिप्पनके पूर्णिमाभिवृद्धावाराधनायां प्रतिपद्वृद्धिं कुर्वन्ति तन्मतमप्यपास्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org