________________
पर्युषणातिथिविनिश्चयः ।।
११५ चतुर्दशी वर्तते, अद्य चतुर्दश्यां पौषधोऽस्माकमित्याबालगोपालं प्रतीतस्य व्यवहारस्यानुपपत्तेश्च ।
किञ्च, टिप्पनकोक्तप्रथमपूर्णिमायां 'वृद्धौ कार्या तथोत्तरे'ति वचनेन पूर्णिमात्वेन प्रामाण्यनिवृत्तौ तव्याप्यं तद्रूपेणौदयिकत्वमपि निवर्त्तत एवेत्यवश्यमभ्युपेयम् । अत एव च हीरप्रश्नोत्तरे 'औदयिक्येव' इत्यत्रौदयिकीशब्देन टिप्पनकोक्ता उत्तरैव पूर्णिमाऽमावास्या च व्यपदिष्टा, न तु पूर्वतनी । एवकारेणैव च तद्व्यवच्छेदादिति ।
ननु टिप्पनकोक्तप्रथमपूर्णिमादिने पूर्णिमायाः पूर्णिमात्वेन प्रामाण्यनिवृत्तावपि तन्निवृत्तौ च तद्रूपेणौदयिकत्वनिवृत्तावपि च टिप्पनके तद्भोगसत्त्वेनैव पूर्णिमात्वेन तत्र व्यपदेश इति चेत् ।
न। तद्भोगस्य तद्व्यपदेशं प्रत्यप्रयोजकत्वात् । अन्यथा प्रतिपद्दिनेऽपि टिप्पनके द्वितीयाया भोगसत्त्वेन द्वितीयात्वेन व्यपदेशापत्तेः । न चैतदिष्टं तवापि । प्रतिपत्त्वेनैव तत्र दिने प्रामाण्यस्य व्यपदेशस्य च तवापि सम्मतत्वात् ।
तस्माद् यस्मिन् दिने यत्तिथित्वेन प्रामाण्यं तस्मिन् दिने तत्तिथित्वेनैव व्यपदेशः । यस्मिन् दिने च यत्तिथित्वेन प्रामाण्याभावस्तस्मिन् दिने तत्तिथित्वेन व्यपदेशस्याप्यभाव एवेति बोध्यम् ।
नन्वेवं सति टिप्पनकोक्तप्रथमपूर्णिमादिने कितिथित्वेन प्रामाण्यं किंतिथित्वेन च व्यपदेश इति चेत् ।
प्रागेव दत्तमुत्तरमावर्तनीयं विभावनीयं च । तथा च 'वृद्धौ कार्ये'ति वचनानुसारिण्योक्तप्रक्रिययाऽनन्तरोपदर्शित एव पन्थाः प्रमाणम् । एवं च चतुर्दशीपूर्णिमयोः चतुर्दश्यमावास्ययोश्च पर्वतिथ्योर्न सम्बद्धत्वानुपपत्तिः । न वा तनिमित्तकषष्ठाभिग्रहवतोऽपि षष्ठतपःकरणानुपपत्तिः । न वाऽऽराधनायां नियतक्रमव्यवस्थाविप्लवापत्तिश्च ।
इत्थमेव च प्रतिमाभृतः श्रावकस्य श्राविकाया वा चतुर्थीप्रतिमात आरभ्य चतुष्पर्वीपौषधभृतो मुख्यवृत्त्या पाक्षिकपूर्णिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते इति षष्ठज्ञाराधना भवति ।
- उक्तं च तद्विषयकं प्रश्नोत्तरं सेनप्रेश्ने । तथा हि-'प्रतिमाधर श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पर्वीपौषधं करोति । तदा पाक्षिकपूर्णिमा-षष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति पूर्णिमायां चैकाशनकं कृत्वा पौषधं करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org