________________
११४
ग्रन्थत्रयी
त्वात्। अन्यथा 'वृद्धौ कार्या तथोत्तरे' ति आज्ञाभङ्गापत्तेः । तत्र टिप्पनके वृद्धौ सत्यामाराधनायामुत्तरस्या एव तिथेः कार्यत्वोपदेशात् ।
न च, टिप्पनकोक्तत्रयोदशी-चतुर्दशीदिनयोरेव षष्ठं कार्यमिति वाच्यम् ।
अतिप्रसङ्गापत्तेः । चतुर्दशीपूर्णिमयोः षष्ठाभिग्रहवतोऽपि त्रयोदशीचतुर्दश्योस्तत्करणे त्वन्मते कदाचित् पूर्णिमाप्रतिपदोरपि तस्य करणापत्तेः ।
न चेष्टापत्तिरिति वाच्यम् । आराधनायां नियतक्रमव्यवस्थाविप्लवापत्तेः ।
किञ्च, टिप्पनकोक्तप्रथमपूर्णिमायाम्-'उदयंमि जा तिही सा पमाण' मियादिना टिप्पनकोक्तद्वितीयपूर्णिमायामिव पूर्णिमात्वेन प्रामाण्यं त्वयाऽभ्युपगम्यते न वा ?
आये, तस्यां पूर्वतन्यामपि पूर्णिमायां पूर्णिमापर्वाराधनाकर्त्तव्यताप्रसङ्गात् । 'वृद्धौ कार्ये'त्यस्य वैयर्थ्यापत्तेश्च ।
यदि च 'उदयंमि जा तिही सा पमाणं' इत्युत्सर्गवचनापेक्षया 'वृद्धौ कार्या तथोत्तरे ति वचनस्याऽपवादवचनत्वेन तद्बाधकत्वान्न टिप्पनकोक्तप्रथमपूर्णिमायां पूर्णिमात्वेन प्रामाण्यम् । तत्रोत्तरस्या एव पूर्णिमायाः प्रमाणतया कार्यत्वोपदेशादिति द्वितीय एव पक्षः श्रेयानिति चेत् ।
तर्हि तत्र दिने आराधनायां पूर्णिमात्वेन व्यपदेशोऽपि त्यज्यतामेव । न हि तत्र दिने पूर्णिमात्वेन प्रामाण्याभावे पूर्णिमात्वेन व्यपदेशोऽपि युक्तः । अन्यथा प्रतिपद्यपि पूर्णिमात्वेन व्यपदेशापत्त्या अतिप्रसङ्गापत्तेः ।
___न च, टिप्पनकोक्तप्रथमपूर्णिमायां पूर्णिमात्वेन प्रामाण्याभावेऽप्यौदयिकत्वमस्त्येवेति न पूर्णिमात्वेन तत्र विरोधः । प्रतिपदि तु प्रतिपद एवौदयिकत्वं न तु पूर्णिमाया इति तत्र नातिप्रसङ्गोऽपीति वाच्यम् ।
क्षीणचतुर्दशीदिने टिप्पनके त्रयोदश्या एवौदयिकत्वेन त्रयोदश्या एव व्यपदेशापत्तेः।
न चेष्टापत्तिः ।
तत्र त्रयोदशीतिव्यपदेशस्याप्यसम्भवात् । किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वादित्यनेन विरोधापत्तेः । एतदर्थस्य तवापीष्टत्वात् । आराधनायामद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org