________________
पर्युषणातिथिविनिश्चयः॥ एव सत्त्वेऽपि तत्रौदयिकचतुर्दशीत्वेन प्रामाण्यस्य चतुर्दशीदिनत्वेन व्यपदेशस्य स्वीकारावश्यकत्वेन तवापि तत्र समारोपापत्तेस्तुल्यत्वात् । वस्तुतस्तूभयत्रापि समारोपस्य 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' ति वचनेनैव साक्षात् परम्परया च प्राप्सत्वेन न बाधकत्वम्, अपि तु साधकत्वमेव । वचनप्राप्तस्याऽऽरोपस्याऽनभ्युपगमे प्रतिमाप्रतिष्ठावन्दनपूजनादेरपि विलोपापत्तेः । तथा च वृश्चिकभिया पलायमानस्य तवाशीविषमुख एव निपातः । एतद्विशेषविचारस्तूपरिष्टाद् वक्ष्यते ।
किञ्चौदयिक्यास्तिथेरहोरात्रव्यापित्वरूपं सम्पूर्णत्वं त्वया मन्तव्यं न वा ? आद्ये-स्वीकृत एवारोपः । टिप्पनकेऽहोरात्रव्यापित्वाभावेऽपि तिथावहोरात्रव्यापित्वकल्पनात् । न हि शास्त्रे कापि तिथिरहोरात्रव्यापिनी श्रुता । किन्तु द्वाषष्टितमभागोनाहोरात्रप्रमाणैव । टिप्पनेऽपि काचिदेव तिथिः कदाचिदेवाहोरात्रव्यापिनी भवति । न तु सर्वदा सर्वा अपि तिथयः ।
द्वितीये-तत्र तत्र पूर्वाचाय: प्रमाणतयोपन्यस्तस्य - 'आदित्योदयवेलायां या स्तोकाऽपि तिथिर्भवेत् ।
सा सम्पूर्णेति मन्तव्या प्रभूता नोदयं विना ॥" इति वचनस्याऽऽज्ञाभङ्गापत्तेः ।
अत्र च स्तोकाया अपि तिथेः सम्पूर्णत्वमन्तव्यताविधानात् प्रमाणप्राप्ततया स्पष्टमेवाध्यारोपस्य प्रामाण्यम् । प्रमाणप्राप्तस्याऽऽरोपस्याऽस्वीकार एव च दूषणम् । प्रमाणसिद्धस्यार्थस्यास्वीकारेऽन्ततः प्रमाणस्यैवाऽस्वीकारादिति समारोपापादनमस्माकं प्रत्यदूषणमेव । प्रमाणसिद्धत्वेन समारोपस्यैव भूषणत्वादिति ।
किञ्च, तव मते टिप्पनकोक्तप्रथमपूर्णिमादिनेन व्यवहिततया पाक्षिकपूर्णिमयोराराधनायामानन्तर्येण सार्वदिकस्य सम्बद्धत्वस्यापि विलोपापत्तिः ।
न च, मास्तु तदा तयोः सम्बद्धत्वम्, काऽनुपपत्तिरिति वाच्यम् । __ चतुर्दशीपूर्णिमयोः षष्ठतपोऽभिग्रहवतः षष्ठतपःकरणानुपपत्तेः । निरन्तरोपवासद्वयस्यैव हि षष्ठतपोरूपत्वम् । चतुर्दशीपूर्णिमादिनयोश्चाऽसम्बद्धत्वे निरन्तरत्वाभावेन कथं तत्पर्वतिथिद्वयाराधनानिमित्तकनिरन्तरोपवासद्वयात्मकषष्ठतपःकरणोपपत्तिः ?।
न च, टिप्पनकोक्तचतुर्दशी-प्रथमपूर्णिमादिनयोरेव षष्ठोपपत्तिरिति वाच्यम् । टिप्पनकोक्त प्रथमपूर्णिमायां पूर्णिमात्वेन प्रामाण्याभावात् पूर्णिमात्वेनाऽनाराध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org