________________
ग्रन्थत्रयी
११२ पूर्णामावास्ये उक्ते, पर्वदिनत्वमपि तयोस्तत्रोक्तम् । तथाहि-"तथा, पोषं पुष्टि कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधम्, तेनोपवसनमवस्थानमहोरात्रं यावदिति पौषधोपवास इति । अथवा-पौषधं पर्वदिनमष्टम्यादि, तत्रोपवासोऽभक्तार्थः पौषधोपवास इति । इयं व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्कारब्रह्मचर्यव्यापारपरिवर्जनेष्विति । तत्र पौषधोपवासे निरत आसक्तः पौषधोपवासनिरतो यः सः । एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः ।
अयमत्र भावः । पूर्वप्रतिमात्रयोपेतोऽष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति । तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति । इति ।
तथा चौक्तवचनैः सर्वास्वपि पर्वतिथिरूपासु पूर्णामास्वमावास्यासु च 'वृद्धौ कार्येति वचनस्य सावकाशतया तदनुसारेणोपदर्शितप्रक्रियया टिप्पनके तहृद्धावप्याराधनायां त्रयोदशीवृद्धिः सूपपनैव ।
इत्थं च चतुर्दशीपूर्णिमयोः चतुर्दश्यमावास्ययोश्च पर्वतिथ्योर्द्वयोः सार्वदिकं सम्बन्धत्वमप्याराधनायामव्याहतं व्यवतिष्ठेत ।
नन्वेवं टिप्पनके पूर्णिमाभिवृद्धौ टिप्पनकोक्तप्रथमपूर्णिमादिने टिप्पनके सूर्योदयवेलायां पूर्णिमाया एव सत्त्वेऽपि 'वृद्धौ कार्या तथोत्तरे'ति वचनानुसारेण प्रागुपदर्शितप्रक्रिययाऽऽराधनायामौदयिकचतुर्दशीत्वेन प्रामाण्याङ्गीकारे चतुर्दशीदिनत्वेन च व्यपदेशाभ्युपगमे, 'टिप्पनकोक्तचतुर्दशीदिने च टिप्पनके सूर्योदयवेलायां चतुर्दश्या एव सत्त्वेऽप्याराधनायामौदयिकत्रयोदशीत्वेन प्रामाण्याङ्गीकारे द्वितीयत्रयोदशीदिनत्वेन च व्यपदेशाभ्युपगमे च, तत्रोभयत्रापि चतुर्दशीत्वं त्रयोदशीत्वं चाऽऽरोपितमेव स्वीकार्यमिति 'वृद्धौ कार्या तथोत्तरे'त्ति वचनेन टिप्पनकोक्तद्वितीयपूर्णिमादिने पूर्णिमात्वेन प्रामाण्यम्, टिप्पनकोक्तप्रथमपूर्णिमादिने च फल्गुतिथिदिनत्वं टिप्पनकोक्तचतुर्दशीदिने च चतुर्दशीत्वेन प्रामाण्यं स्वीकार्यमित्येव पन्था ज्यायान् । तथा च टिप्पनकोक्तप्रथमपूर्णिमायां चतुर्दशीत्वारोपः टिप्पनकोक्तचतुर्दश्यां च त्रयोदशीत्वारोपोऽपि नैव कल्पनीयः । एवं सर्वत्रापि टिप्पनकोक्तप्रथमद्वितीया-प्रथमपञ्चम्यादौ प्रतिपत्त्व-चतुर्थीत्वाधारोपकल्पना बोध्या । न च षष्ठतप:करणानुपपत्तिरिति । टिप्पनकोक्तत्रयोदशीचतुर्दशीदिनयोरेव षष्ठतपःकरणोपत्तेरिति चेत् ।
न । यत्र दिने टिप्पनके चतुर्दशीक्षयः तत्र दिने टिप्पनके औदयिकत्रयोदश्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org