________________
पर्युषणातिथिविनिश्चयः ॥
१११
तिसृषु चतुर्मासकसम्बन्धिनीष्विति सूत्रकृताङ्ग द्वितीय श्रुतस्कन्धसूत्रवृत्तौ लेपश्रावकाधिकारे । इत्येतत्पर्वाराधनं चरितानुवादरूपं शतवारं पञ्चमश्राद्धप्रतिमावाहककार्त्तिकश्रेष्ठिकवन तु विधिवादरूपम् । तल्लक्षणं पुनरेकेन केनचिद् यत्क्रियानुष्ठानमाचरितं स चरितानुवादः । सर्वैरपि यत्क्रियानुष्ठानं क्रियते स विधिवादस्तु सर्वैरपि स्वीकर्त्तव्य एव न तु चरितानुवाद इति ।
एवं श्रीहीरप्रश्नोत्तरेऽपि सर्वासामपि पूर्णिमानां पर्वतिथित्वमुक्तम् । तथाहि'पूर्णिमास्तिस्र एव पर्वत्वेन संगीर्यन्ते सर्व्वा अपि वा पर्वतयाऽङ्गीकार्या: ? इति श्राद्धा भूयो भूयः पृच्छन्ति इति प्रश्नः । अत्रोत्तरम् - 'छण्हं तिहीण मज्झम्मि का तिही अज्ज वासरे' इत्याद्यागमानुसारेणाऽविच्छिन्नवृद्धपरंपरया च सर्वा अपि पूर्णिमाः पर्वत्वेन मान्या एवेति' ।
एतेन - ननु सूत्रकृताङ्गागमे चतुर्मास्यस्तिस्र एव पौर्णमास्य आराध्यत्वेन गृहीताः । तथाहि - 'सेणं लेवए गाहावई समणोवासगे अहिगयजीवाजीवे० ' इति सूत्रदेशस्य वृत्तिरियम्तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः । एवंभूतेषु धर्म्मदिवसेषु सुष्ठु - अतिशयेन प्रतिपूर्णो यः पौषधो- व्रताभिग्रहविशेषस्तं प्रतिपूर्णमाहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् सम्पूर्ण श्रावकधर्म्ममनुचरति । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धे लेपश्रावकस्याधिकारस्य प्रागुपदर्शितपण्डितशुभविजयगणिकृतप्रश्नोत्तरे सेनप्रश्ने चरितानुवादरूपत्वोक्तेश्च ।
एवं पण्डितदेवविजयगणिकृतप्रश्नोत्तरेऽपि । तत्र सूत्रकृताङ्गवृत्तिव्याख्यानस्य चरितानुवादपरतैवोक्ता । तथा हि- 'चाउद्दसमुद्दिट्ठपुण्णिमासिणीसु णं पडिपुण्णं पोसहं' इत्यत्र श्रीसूत्रकृताङ्गवृत्तौ उद्दिष्टशब्देन कल्याणकतिथय उक्ताः, पौर्णमासीशब्देन तु तिस्रश्चतुर्मासकपूर्णिमा उक्ता: । राजप्रश्नीयवृत्तौ तु उद्दिष्टशब्देनामावास्या पौर्णमासीशब्देन सामान्येन पूर्णिमा उक्तास्तदयं कथमर्थभेद इति प्रश्नः । अत्रोत्तरम् - सूत्रकृताङ्गवृत्तिराजप्रश्नीयवृत्ति - व्याख्यानं चरितानुवादपरं न च तत्साधकं बाधकं वा भव । भगवतीवृत्ति - योगशास्त्रवृत्त्यादौ तु चतुष्पव्र्व्यधिकारे सामान्यतः पूर्णिमामावास्ये उक्ते स्तः । इत्यत्र श्रावक्तानां तत्र ते ज्ञेये इति ।
एवं श्रीसमवायाङ्गवृत्तावप्युपासकप्रतिमाधिकारे चतुष्पव्र्व्या सामान्यत एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org