________________
११०
ग्रन्थत्रयी कार्ये'ति वचनानुसारेणोक्तप्रक्रियया त्रयोदशीवृद्धिरेव गणनीया । सर्वासामपि पूर्णिमामावास्यानां पर्वतिथित्वेन तत्र 'वृद्धौ कार्ये'ति वचनस्य सावकाशत्वात् । यदुक्तं श्रीसेनप्रश्नोत्तरे सर्वासामपि पूर्णिमानां सर्वासामप्यमावास्यानां पर्वतिथित्वम् ।
तथा हि-'श्रावकाश्चतुष्पा चतुर्थादिकं कुर्वन्ति । सा का चतुष्पर्वीति प्रश्नः । अत्रोत्तरम्-चतुर्दशी-अष्टमी-अमावास्या-पूर्णिमा एताश्चतस्रश्चतुष्पळ' इति योगशास्त्रवृत्ती चतुष्पव्या चतुर्थाद्येतत् श्लोकव्याख्याने । तथा च प्रवचनसारोद्धारवृत्तौ चतुष्पर्वीअष्टमी-चतुर्दश्यमावास्या-पूर्णिमालक्षणा उक्ताः ।
तथा पर्वाणि चैवमूचुः - अट्ठमी चाउद्दसि पुण्णिमा य तह अमावसा हवइ पव्वं । मासंमि पव्वछकं तिन्नि अ पव्वाई पक्खंमि ॥ १ ॥
बीआ पंचमी अट्ठमी इगारसी चउदसी पण तिहीओ।
एआओ सुहतिहीओ गोअमगणहारिणा भणिआ ॥ २ ॥ बीआ दुविहे धम्मे पंचमि नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं चउद्दसी चउदपुव्वाणं ॥ ३ ॥
एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां षट्पर्वी च प्रतिपक्षमुत्कृष्टतः स्यादिति श्राद्धविधौ प्रतिक्रमणसूत्रवृत्तौ च । तथा श्रीभगवतीवृत्तौ 'चउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु' इत्यत्रोद्दिष्टाऽमावास्या प्रोक्ताऽस्ति । विपाकवृत्तावपि तथैव ।
किं च-'संते बले वीरियपुरिसक्कारपरक्कमे अट्ठमी-चउद्दसी-नाणपंचमीपज्जोसवणा-चाउम्मासिएसु चउत्थच्छट्टमेन करिज्जा, पच्छित्तमित्येकोनविंशपञ्चाशकवृत्त्यादिष्वनेकग्रन्थेषु पञ्चमी भणिताऽस्ति । पञ्चम्याः पर्वत्वं महानिशीथेऽप्युक्तमस्ति।
नन्वेवं सति त्रिपर्वी चतुष्पी पञ्चपर्वी वा तप:शीलादिनाऽऽराधनीयोच्यते ।
स्वशक्त्यपेक्षं सामेकां वा तामाराधयतां न कश्चिद्दोषः । तथा-'छण्हं तिहीण मज्झमि का तिही अज्ज वासरे' इत्यादिगाथा श्राद्धदिनकृत्यसूत्रेऽस्ति । तद्व्याख्यानं च ८-१४-१५ एताः सितेतरभेदात् षतिथय इति । इत्यादिग्रन्थानुसारेणाऽविच्छिनपरम्परया च सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एवेति ।
अथ च-'चाउद्दसट्ठमुद्दिटुपुण्णिमासिणीसु पडिपुण्ण'मित्यस्य व्याख्या चतुर्दश्यष्टम्यौ प्रतीते, उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, पौर्णमासीसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org