________________
पर्युषणातिथिविनिश्चयः ॥
१०९ टिप्पनके द्वितीयावृद्धौ ‘वृद्धौ कार्या तथोत्तरे'ति वचनेनाराधनायां टिप्पनकस्थोत्तरैव द्वितीया द्वितीयातिथित्वेन प्रमाणमिति । 'वृद्धौ कार्ये'ति वचनमेवाराधनायामुक्तरीत्या टिप्पनकोक्तप्रथमद्वितीयादिने द्वितीयात्वेन प्रामाण्यं निवर्तयति । तन्निवृत्तौ च तदविनाभाव्यौदयिकत्वं तन्नियताहोरात्रव्यापित्वमपि च तत्र निवर्त्तते । एवं 'वृद्धौ कार्येति वचनज्ञापिता द्वितीयात्वेन प्रामाण्यनिवृत्तिरेव च तत्र दिने तिथिसामान्यवत्त्वेनावश्याभ्युपगमनीये तिथिक्रमव्यवस्थाविप्लवभिया च प्रतिपत्तिथ्यन्यतिथिदिनत्वेन च स्वीकारानर्हे प्रतिपत्तिथित्वेन प्रामाण्यं विनानुपपन्नाराधनायां प्रतिपत्त्वेन प्रामाण्यमापादयति । प्रतिपत्त्वेन प्रामाण्यं चौदयिकत्वं विनानुपपन्नं सत्तत्र प्रतिपत्त्वेनौदयिकत्वमप्यापादयति । तत एव च तत्र दिने प्रतिपद एवाहोरात्रव्यापित्वमपीति । तथा च टिप्पनके द्वितीयावृद्धौ टिप्पनकोक्तप्रथमद्वितीया 'वृद्धौ कार्ये'ति वचनेनाराधनायां प्रतिपदेव गणनीयेति प्राप्तम् ।।
एवं टिप्पनकेऽष्टम्यादिपर्वतिथिवृद्धावप्याराधनायां टिप्पनकोक्तप्रथमाष्टम्यादिष्वष्टम्यादित्वेन प्रामाण्यनिवृत्तिः । सप्तम्यादित्वेन च प्रामाण्योपपत्तिश्च स्वयमेव भावनीया ।
एवं टिप्पनके पूर्णिमावृद्धौ टिप्पनकोक्तप्रथमपूर्णिमायां 'वृद्धौ कार्ये'ति वचनानुसारेण पूर्णिमात्वेन प्रामाण्यनिवृत्तिः । तन्निवृत्त्यन्यथानुपपत्त्या चोक्तयुक्ता तत्र दिने चतुर्दशीत्वेन प्रामाण्यम् । एवं चात्र चतुर्दश्या वृद्धिः प्राप्ता । टिप्पनकोक्तचतुर्दशीदिने टिप्पनकोक्तप्रथमपूर्णिमादिने चेत्येवं दिनद्वयेऽपि चतुर्दश्याः प्राप्तत्वात् । टिप्पनकोक्तचतुर्दशी प्रथमा चतुर्दशी, टिप्पनकोक्तप्रथमपूर्णिमा च द्वितीया चतुर्दशीति । तथा च तस्या अपि पर्वतिथित्वेन 'वृद्धौ कार्या तथोत्तरे ति वचनस्य पूर्णिमायामिवात्र चतुर्दश्यामपि सावकाशत्वेन तदनुसारेणोक्तरीत्या टिप्पनकोक्तप्रथमपूर्णिमारूपद्वितीयचतुर्दश्यामेवाराधनायां चतुर्दशीत्वेन प्रामाण्यात् टिप्पनकोक्तचतुर्दशीरूपप्रथमचतुर्दश्यां चतुर्दशीत्वेन प्रामाण्यनिवृत्तिः । तनिवृत्त्यन्यथानुपपत्त्यैव चोक्तयुक्त्या तत्र त्रयोदशीत्वेन प्रामाण्यम् । तथा च टिप्पनके पूर्णिमावृद्धौ ‘वृद्धौ कार्ये' ति वचनानुसारेणोक्तरीत्या टिप्पनकोक्तचतुर्दश्यां त्रयोदशीत्वेन प्रामाण्यम् । टिप्पनकोक्तप्रथमपूर्णिमायां चतुर्दशीत्वेन प्रामाण्यम् । टिप्पनकोक्तद्वितीयपूर्णिमायां च पूर्णिमात्वेन प्रामाण्यमिति सिद्धम् । तथा चैवं टिप्पनके चतुर्दशीवृद्धौ सत्यामाराधनायां त्रयोदशीवृद्धिरिव टिप्पनके पूर्णिमावृद्धावप्याराधनायां त्रयोदशीवृद्धिरेव गणनीयेति सिद्धम् ।
एवं टिप्पनकेऽमावास्यावृद्धावप्याराधनायामयमेवानन्तरोक्तः पन्था भावनीयः । एवं सर्वासामपि पूर्णिमानां सर्वासामप्यमावास्यानां टिप्पनके वृद्धौ सत्यामाराधनायां 'वृद्धौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org