________________
१०८
ग्रन्थत्रयी चतुर्थीतिथित्वेनैव तत्र दिने प्रामाण्यं चतुर्थीदिनत्वेनैव च तत्र दिने व्यपदेश इति गृहाण । यतस्तिथिसामान्यस्य तत्र दिनेऽवश्याभ्युपगमनीयत्वम् ।
न च विशेषविनिर्मुक्तं सामान्यं वचिदपि प्रमाणम् । नापि तत्र दिने तृतीयातिथित्वेन षष्ठीतिथित्वेन वा प्रामाण्यम्, तृतीयादिनत्वेन षष्ठीदिनत्वेन वा व्यपदेश इति युक्तम् । सर्वसिद्धतिथिक्रमव्यवस्थाविप्लवप्रसङ्गात् ।
इत्थं च विवादापन्ने गुरुवासरादौ टिप्पनकोक्तप्रथमपञ्चमीदिने तिथिसामान्यवति चतुर्थीतिथ्यन्यतिथिस्वीकारानर्हे 'वृद्धौ कार्ये' तिवचनज्ञापिता पञ्चमीत्वेन प्रामाण्यनिवृत्तिरेव चतुर्थीत्वेन प्रामाण्यं विना न स्यात् । इति तिथिसामान्यवति पञ्चमीत्वेन प्रामाण्यनिवृत्तिरेवान्यथाऽनुपपन्ना तत्र दिने चतुर्थीत्वेन प्रामाण्यमापादयति । 'सर्वतो बलवती ह्यन्यथानुपपत्ति'रिति सामान्यवति विशेषव्यावृत्तेविशेषान्तरं विनानुपपत्तेविशेषान्तराक्षेपकत्वनियमाच्च । दृष्टं चैतत् घटसामान्यवति भूतले नीलघयद्यात्मकघटविशेषनिवृत्तिः पीतघटाद्यात्मकघटविशेषान्तरं विनाऽनुपपन्ना तादृग्घटविशेषान्तरमाक्षिपत्येवेति । तत्राप्यौदयिकचतुर्थीत्वेनैव प्रामाण्यमित्यपि बोध्यम्।
सर्वत्रापि तिथौ 'उदयंमि जा तिहि' इत्यादिनाऽऽराधनायामौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वस्य व्यवस्थापितत्वेन प्रामाण्यस्यौदयिकत्वाविनाभावित्वेनौदयिकत्वस्यापि तेनापादनादिति निष्प्रत्यूहमेव सिद्धमाराधनायां तत्र दिने औदयिकचतुर्थीतिथित्वेनैव प्रामाण्यं, चतुर्थीदिनत्वेनैव च तत्र दिने व्यपदेश इति ।
एवं च शास्त्रोपदर्शिततत्तत्पर्वतिथिनिमित्तकाहोरात्रव्यापिपौषधादिव्रतनियमस्याराधनान्यथानुपपत्तेरहोरात्रव्यापित्वमपि । तत्र दिने टिप्पनके प्रथमपञ्चमीसत्त्वेऽप्याऽऽराधनायां 'वृद्धौ कार्ये'ति वचनेन प्राप्तप्रामाण्यकचतुर्थ्या एव मन्तव्यम् । 'सा सम्पूर्णे'ति वचनेनौदयिकत्वेनाभिमताया एव तिथेरहोरात्रव्यापित्वरूपसम्पूर्णत्वस्य मन्तव्यत्वादित्यपि बोध्यम् ।
इत्थं च 'अणागयचउत्थीए' 'चउत्थी पवत्तिया' इत्यादौ चतुर्थीशब्दस्य चतुर्थ्यर्थकत्वाऽऽग्रहेऽपि न नो विद्वेषः, आराध्यपञ्चमीदिनाव्यवहितपूर्वदिनात्मकटिप्पनकोक्तप्रथमपञ्चमीदिनगुरुवासरे 'वृद्धौ कार्ये'ति वचनानुसारेणाराधनायामौदयिकचतुर्थीदिनत्वस्यैव गणनीयत्वात् ।
एवं पर्वतिथ्याराधनायां सर्वत्रापि टिप्पनके पर्वतिथिवृद्धौ भावनीयम् । तथा हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org