________________
पर्युषणातिथिविनिश्चयः ॥
१०७
राधनायामुक्तयुक्त्या तत्र तद्रूपेण तन्निवृत्तेरेव तस्यानौदयिकीशब्देन व्यवहारः कृत इति स्पष्टमेवेति । कथमन्यथा तत्रौदयिक्येवेत्येवकारेण पूर्वतन्यास्तिथेर्व्यवच्छेदोऽपि ग्रन्थकृदभिप्रेतो लभ्येत । वृद्धतिथिस्थले पूर्वदिने पूर्वतन्या अपि तिथेः टिप्पनके सूर्योदयवेलायां सत्त्वेनौदयिकत्वात् । तथा चौदयिक्येव इत्यत्रैवकारेणापि वृद्धतिथिस्थले टिप्पनके सूर्योदयस्पर्शित्वरूपौदयिकत्वे सत्यप्याराधनायां पूर्वतन्यां तिथौ तद्रूपेणौदयिकत्वं निवर्त्तत एवेति ज्ञेयम् । अन्यथैवकारव्यवच्छेद्याभावेन तद्वैयर्थ्यप्रसङ्गात् । यदि चाराधनायां पूर्वतन्यां तिथेरौदयिकत्वनिवृत्तिरिष्टा न स्यात्तह्यदयिक्येव तिथिराराध्यत्वेन विज्ञेया । इत्यत्र उत्तरैव तिथिराराध्यत्वेन विज्ञेया- इत्येवोत्तरं प्रतिपाद्यं स्यात् । येनैवकारव्यवच्छेद्याभावेनैवकारवैयर्थ्यप्रसङ्गोऽपि न स्यादित्यपि विभावनीयम् ।
नन्वेवमपि विवादापत्रे गुरुवासरादौ टिप्पनकोक्तप्रथमपञ्चमीतिथौ पञ्चमीत्वेन प्रामाण्यनिवृत्तौ पञ्चमीत्वनिवृत्तावपि किंतिथित्वेन तत्र प्रामाण्यं किंतिथिदिनत्वेन च तत्र व्यपदेश: ? । नहि पञ्चमीत्वेन, तत्र प्रामाण्यनिवृत्तावपि तिथित्वसामान्येनापि प्रामाण्यनिवृत्तिरिष्टा, तत्र गुरुवासरादौ विवादापत्रे तिथिसामान्यशून्यत्वापत्तेः । न हि कस्मिन्नपि युगे कस्मिन्नपि वर्षे कस्मिन्नपि मासे कस्मिन्नपि पक्षे रव्यादिलक्षणः कोऽपि दिवसस्तिथिसामान्याभाववान् शास्त्रे लोके च प्रसिद्धः । 'अद्य दिने न काऽपि तिथिरस्ती' ति कस्यापि कुत्रापि व्यवहाराभावादिति चेत् ।
न । तवापि तत्रोत्तरनिर्वचनस्य कार्यतया तुल्यत्वात् । नहि तवापि 'वृद्धौ कार्ये 'ति वचनस्य प्रामाण्याङ्गीकारिणो गुरुवासरे पञ्चाङ्गोक्तप्रथमपञ्चमीदिने आराधनाविषये पञ्चम्याः स्वीकारो व्यपदेशो वा युक्तः । तत्र दिने तेन वचनेन पञ्चमीत्वेन प्रामाण्यस्य निवृत्तेर्बोधनात् । नहि यत्र दिने यत्तिथित्वेन प्रामाण्यमेव नास्ति, तत्र दिने तत्तिथित्वेनोपादेयता व्यपदेश्यता वा युक्ता, अतिप्रसङ्गात् । पञ्चमीसमाप्त्यभावोऽपि त्वन्मते तत्र दिने पञ्चमीदिनत्वेनोपादेयतायां व्यपदेश्यतायां च बाधकत्वेनाधिक इत्यपि बोध्यम् । तथा च त्वयैव निर्वचनं कार्यं यद् विवादापत्रे गुरुवासरादौ टिप्पनकोक्तप्रथमपञ्चमीदिने किंतिथित्वेन प्रामाण्यं किंतिथिदिनत्वेन च व्यपदेश्यतेति । अनिर्वचने चाप्रतिभातस्त्वं नैव मुच्येथाः ।
अथ सुहद्भावेन भवन्तमेव पृच्छामि किं तत्र निर्वचनमिति चेत् । पञ्चमीत्वेन प्रामाण्यस्य तत्र निवृत्तेः पञ्चमीदिनाव्यवहितपूर्वदिनत्याच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org