________________
१०६
निवृत्तेः ।
अत एव च सेनप्रश्नेऽपि टिप्पनकेऽष्टम्यादितिथिवृद्धौ 'वृद्धौ कार्या तथोत्तरे' ति वचनप्रामाण्यात् स्वल्पाया अप्यग्रेतनाया एव तिथेः प्रामाण्यमुक्तं न तु सम्पूर्णाया अपि पूर्वतन्याः । तथा च तत्पाठ:- 'अष्टम्यादितिथिवृद्धावग्रेतन्या आराधनं क्रियते । यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति । तावत्या एवाराधनं भवति । तदुपरि नवम्यादीनां भवनात् । सम्पूर्णायास्तु विराधनं जातम्, पूर्वदिने भवनात् । अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा तु पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठु आराधनं भवतीति प्रश्नः । अत्रोत्तरम् - 'क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरे 'ति उमास्वातिवाचकवचनप्रामाण्याद् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथि: प्रमाणमिति । '
ग्रन्थत्रयी
तथा च सिद्धं विवादापन्ने गुरुवासरे गतवर्षीये रविवासरे च पञ्चमीदिनत्वाभावे 'वृद्धौ कार्ये' ति विशेषवचनस्यैव प्रामाण्यमिति ।
अत्रेदं बोध्यम्-टिप्पनकोक्तप्रथमपञ्चम्यामुक्तवचनेन पञ्चमीत्वेन प्रामाण्यनिवृत्तौ तद्रूपेण तत्रैौदयिकत्वमपि निवर्त्तत एव । तिथौ प्रामाण्यस्यौदयिकत्वव्यापकत्वात् । व्यापकनिवृत्तौ च व्याप्यनिवृत्तेः प्रतिबद्धत्वादिति ।
इत्थं च टिप्पनके पञ्चमीतिथिवृद्धावाराधनायामुत्तरतिथिरूपा टिप्पनकोक्तद्वितीयैव पञ्चमीतिथिरौदयिकी पञ्चमीति व्यपदेश्या । न तु टिप्पनकोक्तप्रथमा पञ्चमी । तत्र पञ्चमीत्वेन प्रामाण्यनिवृत्तौ तद्रूपेणौदयिकत्वस्यापि तत्र निवृत्तेः । एवमष्टम्यादिष्वपि बोध्यम् ।
अत एव च श्रीहीरप्रश्नोत्तरे श्रीसेनप्रश्नोत्तरे च पूर्णिमामावास्यावृद्धिविषयकप्रश्नोत्तरे एकादशीवृद्धिविषयकप्रश्नोत्तरे चौदयिकीशब्देनोत्तरैव तिथिर्व्यवहृताऽपि । यदुक्तम्-पूर्णिमामावास्ययोर्वृद्धौ पूर्वमौदयिकीतिथिराराध्यत्वेन व्यवह्रियमाणाऽऽसीत् । केनचिदुक्तं श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत्किमिति प्रश्नः । अत्रोत्तरम् - पूर्णिमामावास्ययोर्वृद्धावौदयिक्येव तिथिराराध्यत्वेन विज्ञेया इति । एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधौपवस्तादिकृत्यं पूर्वस्यामपरस्यां वा किं विधेयमिति प्रश्न: । अत्रोत्तरम्-औदयिक्येकादश्यां श्रीहीरविजयसूरिनिर्वाणपौषधादि विधेयमिति च । अत्र टिप्पनके पूर्वतन्यामपि तिथौ सूर्योदयस्पर्शित्वरूपौदयिकत्वसत्त्वेऽप्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org