________________
पर्युषणातिथिविनिश्चयः ॥
१०५
या तिथिः सा पञ्चमीत्वेन प्रमाणीकार्येति गुरुवासरे टिप्पनकोतपञ्चम्यां 'उदयंमि जा तिहि' इत्यादिना प्राप्तं पञ्चमीत्वेन प्रामाण्यं च व्यावर्त्तयति ।
न च गुरुवासरे प्रथमपञ्चम्यां पञ्चमीत्वेन प्रामाण्यव्यावर्तकत्वेऽस्य वचनस्य किं प्रमाणम् इतरनिवृत्तिवाचकस्य पदस्य तत्राभावादिति वाच्यम् ।
,
इतरनिवृत्तिवाचकपदाभावेऽप्यस्य वचनस्येतरनिवृत्तिपरत्वादेव । अन्यथैतद्वचनारम्भस्यैव वैयर्थ्यापत्तेः । उत्तरस्यां शुक्रवासरतिथावपि 'उदयंमि जा तिहि' इत्यादि - वचनेनैव पञ्चमीत्वेन प्रामाण्यस्य प्राप्तत्वात् ।
न चास्तु 'वृद्धौ कार्ये' ति वचनस्य वैयर्थ्यमिति वाच्यम् ।
पूर्वाचार्यवचनतात्पर्यावधारणशक्त्यभाववतस्तव तद्वैयर्थ्यं कथयतो महाशातनाप्रसङ्गात् । आरम्भे सति प्रयोजनमवश्यमिति व्याप्तेश्च । न ह्यापाततः प्रयोजनानुपलम्भे आरम्भवैयर्थ्यम्, इतरनिवृत्तिरूपप्रयोजनस्योक्तत्वाच्च । इत्थमेव चेदं वचनम् । “तत्र चान्यत्र च प्राप्तौ परिसङ्ख्याभिधीयते -" इत्यन्यत्रोपदर्शितः परिसङ्ख्याविधिरित्यपि कथ्यते ।
I
'उभयस्य युगपत्प्राप्तावितरव्यावृत्तिपरो विधि: परिसङ्ख्याविधि 'रिति हि तल्लक्षणम् । नेदं हि वचनं टिप्पनके तिथिवृद्धावुत्तरतिथिप्रामाण्यपरम् । तस्य 'उदयंमि जा तिही सा पमाणं' इत्यादिवचनेनैव प्राप्तत्वात् । नापि नियमपरम्-तत्र तिथिवृद्धिस्थले पूर्वदिने पूर्वस्यामुत्तरदिने उत्तरस्यामिति द्वयोरपि तिथ्योः समुच्चित्य प्रामाण्यस्य प्रागुक्तवचनेनैव प्राप्तौ पक्षेऽप्राप्त्यभावात् । किन्तु गुरुवासरे टिप्पनकोक्तप्रथमपञ्चम्यां पञ्चमीत्वेन प्रामाण्यनिवृत्तिपरमेव । इतरनिवृत्तिवाचकपदस्याभावाच्चेयं लाक्षणिकी परिसङ्ख्येति गीयते ।
एतत्परिसङ्ख्याविध्यात्मकवचनाभावे हि पञ्चमीपर्वाराधनकाम उत्तरपञ्चमीदिनं शुक्रवासरमिव टिप्पनकोक्तप्रथमपञ्चमीदिनं गुरुवासरमपि पञ्चमीपर्वदिनतयाऽऽराधयेत् । न चैतदिष्टं तवापीत्यनिष्टापत्तिः ।
सत्यस्मिश्च वचने गुरुवासरात्मक टिप्पनकोक्तप्रथमपञ्चमीदिने 'उदयंमि जा तिहि' इत्यादिना प्राप्तस्य पञ्चमीत्वेन प्रामाण्यस्य निवृत्त्या पञ्चमीपर्वाराधनकामः शुक्रवासरात्मकोत्तरपञ्चमीदिनमेवाराधयेत् । तत्रैव तिथौ पञ्चमीत्वेन प्रामाण्यात् । न तु गुरुवासरात्मकटिप्पनकोक्तप्रथमपञ्चमीदिने । तत्र 'वृद्धौ कार्ये' ति वचनेन पञ्चमीत्वेन प्रामाण्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org