________________
१०४
ग्रन्थत्रयी न च तत्र त्रयोदशीतिव्यपदेशस्याप्यसम्भवः । प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात् । एवमुक्तचतुर्थीक्षयेऽपि तत्र दिने तृतीयेति व्यपदेशस्याप्यसम्भवः किन्तु चतुर्थीत्येव तत्र व्यपदेश इति वाच्यम् ।
एतदर्थस्यापि प्रमाणबाधितत्वात् । टिप्पनके तत्र दिने चतुर्दश्या उक्तचतुर्थ्याचौदयिकत्वाभावात् त्रयोदश्येव तृतीयैव च तत्तद्दिने टिप्पनके औदयिकी वर्तते । 'उदयंमि जा तिही सा पमाणं' इत्यादिना चौदयिक्या एव तिथेः प्रामाण्यं व्यवस्थापितम् । अन्यथा तत्र दिने चतुर्दश्याः टिप्पनके औदयिकत्वाभावेऽपि चतुर्दशीत्वेन प्रामाण्ये चतुर्दशीत्वेन व्यपदेशे वा, एवं भाद्रशुक्लचतुर्थ्याः टिप्पनके औदयिकत्वाभावेऽपि चतुर्थीत्वेन तत्र दिने प्रामाण्ये व्यपदेशे वाऽतिप्रसङ्गापत्तिः ।
ननु सामान्यवचनेन तत्र बाधेऽपि 'क्षये पूर्वा तिथिः कार्ये' तिविशेषवचनस्यैवात्रार्थे प्रामाण्यमिति नोक्तार्थस्य प्रमाणबाधितत्वम् तथा हि-टिप्पनके पर्वतिथिक्षये 'क्षये पूर्वा तिथिः कार्येति वचनं यत्र दिने यस्याः पर्वतिथेः क्षयः स्यात्तत्र दिने पूर्वातिथिरेव पर्वतिथित्वेन प्रमाणीकार्येति नियमयति । इत्थं च प्रागुक्तसोमवासरे टिप्पनके चतुर्दश्याः क्षये प्राप्ते तत्र दिने पूर्वा तिथिसैदयिकी योदश्येवौदयिकचतुर्दशीत्वेन प्रमाणीकार्या । तथा च तत्र दिने चतुर्दशीतिव्यपदेशस्य चतुर्दश्याराधनायाश्च नैव प्रमाणबाधितत्वम् । एवं टिप्पनके भाद्रशुक्लचतुर्थ्याः क्षयेऽपि तत्र दिने पूर्वा तिथिरौदयिकी तृतीयैवौदयिकचतुर्थीत्वेन प्रमाणीकार्येति तत्र दिने भाद्रशुक्लचतुर्थीतिव्यपदेशस्य पर्युषणा पर्वाराधनायाश्च नैव प्रमाणबाधितत्वमिति चेत् ।।
___ एवं तर्हि विवादापने गुरुवासरेऽपि पञ्चमीदिनत्वाभावे औदयिकचतुर्थीदिनत्वे च 'वृद्धौ कार्या तथोत्तरे'तिविशेषवचनस्यैव प्रामाण्यम् । तथा हि-'वृद्धौ कार्या तथोत्तरे' ति-वचनं हि टिप्पनके सूर्योदयद्वयस्पर्शिन्यां वृद्धायां तिथावुत्तरदिनसूर्योदयस्पर्शिन्युत्तरैव तिथिस्तत्तिथित्वेन प्रमाणीकार्येति नियमयति । निवर्तयति च पूर्वदिनसूर्योदयस्पर्शिन्यां पूर्वस्यां तिथौ तत्तिथित्वेन प्रामाण्यम् । अन्यथा तत्रापि तत्तिथ्याराधनाकर्तव्यतापत्तेः । यथा टिप्पनके भाद्रशुक्लपञ्चमी गुरुवासरे शुक्रवासरे चौदयिकी वर्तते । इति दिनद्वयेऽपि 'उदयंमि जा तिहि 'प्रातः' इत्यादिना च पञ्चमीत्वेन प्रामाण्यं प्राप्तम् । दिनद्वयेऽपि तत्र सूर्योदयवेलायां पञ्चम्याः सत्त्वात् । अथवा च 'वृद्धौ कार्येति वचनम्-उत्तरा तिथि: शुक्रवासरे या तिथिः सैव पञ्चमीत्वेन प्रमाणीकार्येति नियमयति । पूर्वा तिथिर्गुरुवासरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org