________________
पर्युषणातिथिविनिश्चयः ॥
१०३ विवादापन्नो गुरुवासर औदयिकभाद्रशुक्लचतुर्थीदिनत्वाभाववान् पञ्चमीदिनत्वादिति सिद्ध्यतीति चेत् ।
न । एतस्याप्यसिद्धेः । न हि गुरुवासरे पञ्चमीतिथेः समाप्तिमत्त्वाभावे पञ्चमीदिनत्वसिद्धिः । या तिथिर्यस्मिन्नेवादित्यवारलक्षणे दिने समाप्यते स दिनस्तत्तिथित्वेन स्वीकार्य इति तव सिद्धान्तात् । प्रत्युत शुक्रवासर एव पञ्चमीतिथि: समाप्तिमतीति शुक्रदिनस्यैवाराधनायां पञ्चमीदिनत्वम् । तदव्यवहितपूर्वदिनत्वाच्चाराधनायां गुरुवासरे चतुर्थीदिनत्वमेवेति । तत्र तदभावो निष्प्रमाण एवेत्यतोऽप्यसिद्धिर्दुरुद्धरा ।
न च टिप्पनके गुरुवासरेऽपि पञ्चम्येव तिथिरस्तीति तत्र पञ्चमीदिनत्वमेवेति प्रमाणबाधितोऽयमुक्तोऽर्थ इति वाच्यम् ।
एतत्प्रमाणबाधितत्वस्य समासिघटिततिथिलक्षणाङ्गीकारिणस्तवापि तुल्यत्वात्। .. तत्र गुरुवासरे पञ्चमीसमाप्त्यभावेन तत्र पञ्चमीदिनत्वस्यापि त्वयाऽस्वीकार्यत्वात् ।
किञ्च, यदा टिप्पनके सोमवासरे त्रयोदशी साधिके द्वे घटिके यावत्, तदनु साधिकास्त्रिपञ्चाशद्धटिका यावत् चतुर्दशी, तदनु च साधिकास्तिस्रो घटिका यावदमावास्या। तत्र टिप्पनके सोमवासरे चतुर्दश्याः क्षयो वर्तते त्रयोदश्येव चौदयिकी वर्तते । त्वयापि तत्र कथं सोमवासरे औदयिकचतुर्दश्यभावेऽप्यौदयिक्यां त्रयोदश्यामेव चतुर्दश्याराधनं क्रियते ?। एवमेव च यदा टिप्पनके भाद्रशुक्लचतुर्थ्याः क्षयः स्यात् तदापि टिप्पनके तृतीयैवौदयिकी स्यान तु चतुर्थीत्यौदयिकचतुर्थ्या अभावेऽप्यौदयिकतृतीयायामेव त्वया कथं पर्युषणापर्वाराधना विधीयते ?। आराधनायामपि त्वया सर्वत्र तिथौ टिप्पनकोक्तौदयिकत्वस्यैव स्वीकारात् । तस्य च क्षीणचतुर्थ्यामभावात् । सूर्योदयास्पर्शित्वरूपानौदयिकत्वस्यैव तिथौ क्षीणत्वरूपत्वात् ।
तथा च'इयराए कीरमाणीए । आणाभंगऽणवत्था मिच्छत्तविराहणं पावे' इति वचनोपदर्शिताज्ञाभङ्गादिप्रत्यवायोऽपि तत्र तत्र तव वज्रलेपायित एव कथं न स्यात् ?।
न च तत्र त्रयोदश्या एव चतुर्दशीत्वेन स्वीकार एवं तृतीयाया एव चतुर्थीत्वेन स्वीकार इति वाच्यम् ।
टिप्पनकानुसारेणौदयिकतिथिस्वीकारान्यतिथितिरस्काराग्रहवतस्तव तत्रौदयिक्यास्त्रयोदश्याश्चतुर्दशीत्वेन स्वीकारस्यौदयिक्यास्तृतीयायाश्चतुर्थीत्वेन स्वीकारस्याप्ययुक्तवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org