________________
१०२
ग्रन्थत्रयी सति चतुर्थीदिनत्वादिति । तथा च नाऽसिद्धिर्न वाऽऽज्ञाभङ्गापत्तिरिति वाच्यम् ।
तत्र चतुर्थीदिनत्वस्य वैयर्थ्याद् हेतोळप्यत्वासिद्धः । त्वदभिमतलक्षणानुसारेण प्रथमपञ्चमीदिने गुरुवासरे पञ्चम्याः समाप्त्यभावेन पञ्चमीदिनत्वस्यैवासिद्धेः विशेषणासिद्धेविशिष्टस्य हेतोरप्यसिद्धेश्च । 'वृद्धौ कार्ये'ति वचनेन च प्रथमपञ्चमीदिने औदयिकचतुर्थीदिनत्वस्यैवाभ्युपगमनीयत्वस्योक्तत्वाद् वक्ष्यमाणत्वाच्च । ।
एवं विवादापन्नो बुधवासरो, न पर्युषणापर्वकर्तव्यताकः, आराध्यरूपौदयिकभाद्रशुक्लपञ्चमीदिनव्यवहितपूर्वदिनत्वात् । 'नो से कप्पइ तं रयणिं उवायणावित्तए' इत्यत्र तत्पदवाच्यरात्रिव्यवहितरात्रिसम्बन्धिदिनत्वादित्यर्थः । इति साध्याभावसाधकहेत्वन्तरसद्भावेन तव हेतोः सत्प्रतिपक्षत्वमपि दुरुद्धरमिति ।
तथा चानुमानादपि विवादापन्ने बुधवासरे गतवर्षीये शनिवासरे वाऽऽराध्यभाद्रशुक्लपञ्चमीदिनव्यवहितपूर्वदिनात्मके न पर्युषणापर्वकर्तव्यतासिद्धिः । इत्यनुमानबाधितत्वमप्यस्मत्सिद्धान्तस्य दूरोत्सारितमेवेति । प्रत्युताऽनुमानादपि विवादापने गुरुवासरे गतवर्षीये रविवासर एवाराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनात्मके पर्युषणापर्वकर्तव्यता निराबाधा सिध्यति ।
तथा हि-विवादापनो गुरुवासरो गतवर्षीयो रविवासरो वा श्रीपर्युषणापर्वकर्तव्यताकः आराध्यरूपौदयिकभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वात् । 'नो से कप्पइ तं रयणि उवायणावित्तए' इत्यत्र तत्पदवाच्यरात्र्यव्यवहितपूर्वरात्रिसम्बन्धिदिनत्वादित्यर्थः।
न चात्र हेतोः सत्प्रतिपक्षत्वमिति वाच्यम् । मिथो विरुद्धयोर्हेत्वोस्तुल्यबलत्वाभावात् । अन्यथा वस्तुनो विरुद्धद्वैरूप्यापत्तेः ।
न च तुल्यबलत्वेन प्रतिसंहितेन हेतुना सत्प्रतिपक्षत्वापादनं भविष्यतीति वाच्यम् ।
तोकस्य हेतोरन्यतमाङ्गवैकल्यचिन्तायामस्मदुक्तहेतोर्वैकल्ये तस्यैवोद्भाव्यत्वात् । अवैकल्ये च त्वदीयेनैवहेतुना विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् ।
ननु तथापि विवादापन्नो गुरुवासरो गतवर्षीयो रविवासरो वा न पर्युषणापर्वकर्तव्यताकः, औदयिकभाद्रशुक्लचतुर्थीदिनत्वाभावादित्यत्रापि साधनदशायां किञ्चिद्वाच्यमिति चेद् असिद्धिरेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org