SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पर्युषणातिथिविनिश्चयः ॥ १०१ न च गुरुवासरे टिप्पनके पञ्चमीदिनत्वादाराधनायां तत्रौदयिकचतुर्थीदिनत्वमारोपितमेवेति वाच्यम् । तवापि प्रागुक्तं टिप्पनकोक्तप्रथमचतुर्थीदिनेऽभ्युपगतमौदयिकतृतीयादिनत्वमप्यारोपितमेव मन्तव्यम् । टिप्पनके तु तत्र चतुर्थीदिनत्वादिति तुल्यत्वात् । न च तत्र 'वृद्धौ कार्ये' ति वचनादेवौदयिकतृतीयादिनत्वस्य प्राप्तत्वेन तस्यारोपितत्वेऽपि न क्षतिरिति वाच्यम् । अस्माकमपि टिप्पनके पञ्चमीवृद्धौ ‘वृद्धौ कार्ये' तिवचनादेव टिप्पनकोक्तप्रथमपञ्चमीदिने औदयिकचतुर्थीदिनत्वाभ्युपगमस्य प्राप्तत्वेन तस्यारोपितत्वेऽपि नैव क्षतिरित्यस्यापि तुल्यत्वादिति ।। __स्यादेतत् । भाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वे सत्यौदयिकचतुर्थीदिनत्वादित्येव तत्र हेतुरस्तु, इति चेत् । न । पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टहेतुकथनरूपस्य हेत्वन्तरस्यापत्तेः । तत्रौदयिकत्वस्य व्यर्थत्वाद् व्याप्यत्वासिद्धेश्च । किञ्च, टिप्पनके भाद्रशुक्लपञ्चमी गुरुवासरे शुक्रवासरे चेति दिनद्वयव्यापिनी वर्तते । तत्राराधनायां त्वया भाद्रशुक्लपञ्चमीदिनत्वं किं गुरुवासरेऽभ्युपगम्यते किं वा शुक्रवासरे किं वा द्वयोरपि दिनयोः ?। ___ आधे-स्वीकृतसिद्धान्तप्रच्यवनरूपोऽपसिद्धान्तो दुर्निवारस्ते । त्वया हि यस्मिन् रव्यादिदिने या तिथि: समाप्यते स एव रव्यादिदिनस्तत्तिथित्वेनाभ्युपगम्यते । इति त्वदभिमतलक्षणानुसारेण गुरुवासरे पञ्चम्यास्तिथेः समाप्त्यभावेऽपि गुरुवासरे पञ्चमीदिनत्वाभ्युपगमात् । पञ्चमीपर्वाराधनायाश्च गुरुवासरे एव कर्त्तव्यताप्रसक्तेः । 'वृद्धौ कार्या तथोत्तरे' त्याज्ञाभङ्गापत्तेरपि वज्रलेपायितापत्तेश्च । द्वितीये, पञ्चम्याः तिथेः शुक्रवासर एव समाप्तिमत्त्वेन शुक्रदिनस्यैव पञ्चमीदिनत्वाभ्युपगमे पञ्चमीदिनाव्यवहितपूर्वदिनत्वस्य बुधवासरेऽभावात्स्वरूपासिद्धो हेतुः । एतेन तृतीयपक्षोऽपि निरस्तः । पक्षद्वयोपदर्शितदोषापत्तेः । न च, टिप्पनके गुरुवासरे प्रथमा पञ्चमी वर्तते शुक्रवासरे च द्वितीया पञ्चमी। तत्र 'वृद्धौ कार्ये'ति वचनेन पञ्चम्याराधनाया द्वितीयपञ्चमीदिने शुक्रवासरे एव विधेयता न तु प्रथमपञ्चमीदिने गुरुवासरे । हेतुश्च भाद्रशुक्लप्रथमपञ्चमीदिनाव्यवहितपूर्वदिनत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy