________________
१००
ग्रन्थत्रयी ननु हेतौ साध्याभाववद्वृत्तित्वमेव व्यभिचार इति कोऽत्र साध्याभाववान् यदृत्तित्वं हेतावापाद्यत इति चेत् ।
न । यत्र टिप्पनके भाद्रशुक्लपक्षे चतुर्थीद्वयं स्यात्; यथा टिप्पनके रविवासरे प्रथमा चतुर्थी, सोमवासरे द्वितीया चतुर्थी, तत्राऽऽवयोरुभयोरपि पर्युषणापर्वकर्तव्यताकत्वं टिप्पनकोक्तद्वितीयचतुर्थीदिनात्मके सोमवासर एव सम्मतम् । तत्र रविवासरे साध्याभाववति हेतोः सत्त्वाद् व्यभिचारात् ।
न च तत्र रविवासरे टिप्पनके चतुर्थीदिनत्वसत्त्वेऽप्याराधनायामौदयिकचतुर्थीदिनत्वानभ्युपगमेनैव तत्र तद्रूपहेतोरसत्त्वादेव न व्यभिचार इति वाच्यम् ।
___ तर्हि हेतावौदयिकत्वस्य वैयर्थ्याद् व्याप्यत्वासिद्ध्यापत्तेः । व्यर्थविशेषणघटितत्वस्यैव तल्लक्षणत्वादित्युभयतःपाशारज्जुः ।
ननु भाद्रशुक्लचतुर्थीदिनत्वस्यैव तत्र हेतुताऽस्त्विति चेत् ।
न । प्रागुक्तटिप्पनकोक्तप्रथमचतुर्थीदिनात्मके रविवासरे व्यभिचारापत्तेस्तादवस्थ्यात् ।
न च टिप्पनके भाद्रशुक्लचतुर्थीवृद्धौ तस्याश्च पर्युषणारूपपर्वतिथित्वेनाराधनायां टिप्पनकोक्तद्वितीयचतुर्थीदिन एवौदयिकचतुर्थीदिनत्वं स्वीक्रियते । 'वृद्धौ कार्यातथोत्तरे' ति वचनात् । टिप्पनके यथैकादशीप्रभृतितिथिवृद्धौ टिप्पनकोक्तद्वितीयैकादश्यादिदिन एवाराधनायामौदयिकैकादश्यादिदिनत्वं न तु टिप्पनकोक्तप्रथमैकादश्यादिदिने, तत्राराधनायां द्वितीयदशम्यादिदिनत्वस्यैव स्वीकारात् । अन्यथा टिप्पनकोक्तभाद्रशुक्लप्रथमचतुर्थीदिनेऽपि पर्युषणापर्वाराधनापत्तिः स्यात्, विनिगमकाभावात् । तथा च तत्र टिप्पनकोक्तप्रथमचतुर्थीदिन उक्तवचनादौदयिकचतुर्थीदिनत्वनिवृत्त्यौदयिकतृतीयादिनत्वमेवाभ्युपगमनीयमिति न तत्र व्यभिचारस्तत्र हेतोरेवासत्त्वादिति वाच्यम् ।
एवं हि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावस्माभिरपि 'वृद्धौ कार्या तथोत्तरे'तिवचनादेव टिप्पनकोक्तद्वितीयपञ्चमीदिन एवौदयिकपञ्चमीदिनत्वं स्वीक्रियते। तथा चोक्तरीत्या तत्र टिप्पनकोक्तप्रथमपञ्चमीदिने औदयिकपञ्चमीदिनत्वनिवृत्त्यौदयिकचतुर्थीदिनत्वमेवाभ्युपगमनीयमिति तत्रैव पर्युषणापर्व विधेयम् । इति तवाप्यस्मिन् वर्षे विवादापने गुरुवासर एव तत्कर्तव्यमिति सिद्धमिति विवादानवकाशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org