________________
पर्युषणातिथिविनिश्चयः ॥
इत्थं च टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यरूपौदयिकपञ्चमीदिनात्मकटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिन एव पर्युषणापर्व विधेयम् । अस्मिन् वर्षे च विवादापन्ने गुरुवासर एव विधेयम् । गतवर्षेऽपि तद् विवादापने रविवासर एव युक्तमासीदित्यागमप्रामाण्यादपि सिद्धम् । तथा च निष्प्रत्यूहमेव सिद्धमागमस्याप्यस्मदुक्तसिद्धान्तसाधकत्वमिति । आगमबाधितत्वं तु प्राक् त्वयोक्तं अस्मदुक्तसिद्धान्तस्य दूरोत्सारितमेवेति बोध्यम् । एतेनानुमानबाधितत्वमपि तस्य निरस्तम् । आगमसिद्धेऽर्थेऽनुमानबाधितत्वस्याप्यसम्भवात् ।
___ ननु तथापि, विवादापन्नो बुधवासरः, श्री पर्युषणापर्वकर्तव्यताकः, औदयिकभाद्रशुक्लचतुर्थीदिनत्वात्; अत्रानुमाने को दोषः ? इति चेत् ।।
न । अप्रयोजकत्वात् ।
न च निरुपाधिकत्वेन नास्यानुमानस्याऽप्रयोजकत्वमिति वाच्यम् । आराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वरूपोपाधेर्जागरूकत्वात् । उपाधिर्हि-साधनाव्यापकत्वे सति साध्यव्यापकः । तद्धर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते । तदिदमाहुः --
अन्ये परप्रयुक्तानां, व्याप्तीनामुपजीवकाः । तैदृष्टैरपि नैवेष्टा, व्यापकांशावधारणा ॥" इति ।
यद्व्यावृत्त्या यस्य साधनस्य साध्यं पक्षे व्यावर्तते स धर्मस्तत्र हेतावुपाधिरिति फलितोऽर्थः । यथाऽऽर्दैन्धनवत्त्वं वह्निमत्त्वे । व्यावर्तते हि तव्यावृत्त्या धूमवत्त्वं तप्तायःपिण्डे । एवं विवादापने बुधवासरे शनिवासरे वा पक्षे व्यावर्तमानमाराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वं स्वव्याप्यं पर्युषणापर्वकर्तव्यताकत्वमपि व्यावर्तयति । व्यापकनिवृत्त्या व्याप्यनिवृत्तेनियतत्वात् । एवं हेतावुपाधिव्यभिचारेण साध्यव्यभिचारोऽपि स्फुट एव । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वात् । यथा-तप्ताय:पिण्डो धूमवान् वढेरित्यादौ, तत्र हि वह्निधूमव्यभिचारी, धूमव्यापकार्टेन्धनसंयोगव्यभिचारित्वादिति व्यभिचारानुमानम् ।
तथाऽत्रापि हेतुत्वेनाभिमतमौदयिकभाद्रशुक्लचतुर्थीदिनत्वं पर्युषणापर्वकर्तव्यताकत्वरूपसाध्यव्यभिचारि तादृशसाध्यव्यापकाराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वव्यभिचारित्वादिति व्यभिचारानुमानम् । तथा च हेतोर्व्यभिचरितत्वमपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org