________________
९८
अथ 'णवट्टइ अइक्कमिउं' इत्यनेन षष्ठ्याः पञ्चम्यपेक्षयाऽतिक्रान्तत्वेनैव निषिद्धत्वं, चतुर्थ्याश्च तदपेक्षयाऽनतिक्रान्त्वेनैव राज्ञा 'ता अणागयचउत्थीए पज्जोसविति' इति चतुर्थीविषया पर्युषणाकरणविज्ञप्तिः कृतेति, 'अणागथ' इत्यत्रानागतत्वं नागामित्वरूपं न वाऽनन्तरत्वरूपं किन्त्वनतिक्रान्तत्वरूपमेव बोध्यम् । उक्तरीत्या प्रकरणादिना तत्रैवार्थे तत्तात्पर्यस्य युक्तत्वात् । आगता - पर्युषणारात्र्यात्मकपञ्चमीरात्रिं प्राप्ता, अतिक्रान्ता उल्लङ्घितेति यावत् । न आगता-अनागता - अनतिक्रान्ता, तस्या भावोऽनतिक्रान्तत्वमिति व्युत्पत्त्यापि तदर्थलाभाच्च । तथा च तृतीय एव पक्षः श्रेयान् । न चैवं पञ्चम्यपेक्षयाऽनतिक्रान्तत्वं तत्पूर्ववर्त्तित्वरूपार्थ एव पर्यवसितमिति प्रागुक्ताऽऽवश्यकचूर्ण्यादौ 'पुव्वि अणागयं' इत्यत्र 'पुव्वि' इति पदस्य वैयर्थ्यम् । तदर्थस्य त्वदुक्तरीत्या 'अणागयं' इत्यनेनैव लाभादिति वाच्यम् । तत्राऽव्यवहितपूर्ववर्त्तित्वलाभार्थकतयैव तस्य सार्थक्यकल्पनादिति चेत् ।
ग्रन्थत्रयी
एवमपि पञ्चम्यपेक्षयाऽनतिक्रान्तत्वस्य तृतीयायामपि सत्त्वेन तदव्यवच्छेदात् तत्राऽपि पर्युषणापर्वकर्तव्यतापत्तेः ।
न चाऽनतिक्रान्तत्वे सति चतुर्थीदिनत्वस्यैव तत्र प्रयोजकत्वमिति वाच्यम् । अनतिक्रान्तत्वे सति तृतीयादिनत्वस्यैव कथं न प्रयोजकत्वमित्यस्यापि वाच्यत्वात् । यधाराध्यरूपौदयिकपञ्चमीदिनापेक्षयाऽनतिक्रान्तत्वे सति प्रथमोपस्थितत्वं चतुर्थीदिन एव न तु तृतीयादिने, इत्यनतिक्रान्तत्वे सति चतुर्थीदिनत्वस्यैव प्रयोजकत्वमिति चेत् ।
तर्ह्याराध्यरूपौदयिकपञ्चमीदिनापेक्षयाऽनतिक्रान्तत्वे सति प्रथमोपस्थितदिनत्वेनैव तत्र प्रयोजकता युक्ताऽधिकस्य वैयर्थ्यात् । चतुर्थीदिनत्वस्य प्रयोजकत्वकोटयै प्रवेशे प्रयोजनाभावात् । चतुर्थीदिनत्वं तु तत्रावर्जनीयसिद्धसन्निधिकमेव न तु प्रयोजकमिति सिद्धम् ।
तथा चात्रापीष्टापत्तिरेवास्माकम् । टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यात्मकौदयिकपञ्चमीदिनापेक्षयाऽनतिक्रान्तत्वे सति प्रथमोपस्थितदिनत्वस्य टिप्पनकोक्तप्रथमपञ्चमीदिन एव सत्त्वात् ।
इत्थमप्यस्मिन् वर्षे विवादापत्रे गुरुवासरे एव पर्युषणाकर्तव्यतासिद्धिः, न तु बुधवासरे । गुरुवासर एवोक्तस्वरूपप्रयोजकस्य सत्त्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org